🕉️ 19 November 2026, Thursday · 02:48:26 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ईक्ष
īkṣa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ईक्ष पुं॰ संज्ञा स्त्री॰ [सं॰ इक्षु] दे॰ ईख । उ॰— भयौ सरकार ईक्ष रस व्यापि मिठाई माहिं । सुंदर ब्रह्म सु जगत है, जगत ब्रह्म द्वै नाहिं । — सुंदर ग्रं॰, भा॰ २, पृ ८०२ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ईक्ष mf(ई)n. ifc. seeing, looking, visiting (see तिर्यग्-ईक्ष, वध्व्-ईक्ष)
ईक्ष n. anything seen, ŚBr. vii, 1, 2, 23 (merely for the etym. of अन्तरिक्ष).
📄 मूल मुद्रित पृष्ठ (170,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ईक्ष दर्शने पर्य्यालोचने च भ्वा० आत्म० सक० सेट् । ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्--बभूव आ- स--चक्रे--ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत । ईक्षितव्यः ईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य । ईक्ष- णम् ईक्षा । ईक्षमाणः । कर्म्मणि ईक्ष्यते ईक्ष्यमाणः । धातुनिर्देशे इक्षतिः ईक्षिः । “न धर्मवृद्धेषु वयः समी- क्ष्यते” न कामवृत्तिर्वचनीयमीक्षते” कुमा० । “तदैक्षत बहु स्यां प्रजायेय” श्रुतिः । “स प्रजापतिरीक्षां चक्रे” श्रुतिः “सर्वभूतस्थमात्मानं सर्व्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा” गीता । “कथमीक्षामहे सर्वे, दुर्य्योधन! तवेप्सितम्” भा० व० २९८ श्लो० । “ऐक्षिष्ट पुंभिः प्रचि- नान् स गोष्ठान्” भट्टिः वेदे पदव्यात्यासोऽपि “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो० । पृ- [] ष्टेनशुफाशुभालोचने च तद्योगे शुभाशुभसंबन्धिनि चतुर्थी । “राधीक्ष्योर्यस्य विप्रश्नः” पा० । “यदीयः विविधः प्रश्नः क्रियते तस्मिन् चतुर्थीत्यर्थः । “कृष्णाय ईक्षते गर्गःपृष्टो गर्गः शुभाशुभं पर्त्यालोचयतीत्यर्थः” सि० कौ० । “ईक्षतेर्ना- शब्दम्” शा० सू० । “कारणे ईक्षितृत्वश्रवणात्” भा० । अधि + विवेचने अधीक्षते “कुहकचकितोलोकः सत्येऽप्यपाय मधीक्षते” हितो० । अनु + अनुचिन्तने । “तामन्वीक्षत इयं वै वल्मीकवपेयम्” शत० ब्रा० ६, ३, ३, ५ । “अन्वीक्षमाणीरामस्तु विषण्णं भ्रान्तचेतनम्” रामा० । अप--आकाङ्क्षायामनुरोधे अवधिनियमे च । “अपेक्षते प्रत्ययमुत्तमं त्वाम्” कुमा० “अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । परोपकारनिरतामणिदीपा इवोत्तमाः” उद्भटः । “किमपेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः” किरा० । “द्वित्वादयः परार्द्धान्ता अपेक्षा- बुद्धिजामताः” “अपेक्षाबुद्धिनाशाच्च तेषां नाशः प्रकीर्तितः” भाषा० “शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते” सा० द० । “सापेक्षत्वेऽप्रि गमकत्वात् समासः” पा० भा० “सा प्रक्रिया या कथमित्यपेक्षा” मीमा० । “नदीशः परिपूर्णोऽपि मित्रोदयमपेक्षते” चन्द्रा० । वि + अप + विशेषेणापेक्षयाम् । “न व्यपैक्षत समुन्सुकाः प्रजाः” रघु० । “व्यपेक्षमाणौ सहसीतयागतौ” रामा० “सभर्थः पदविधिः” पा० भा० व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्य- स्तम् । तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः स च युक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः “वाक्यवत् सा व्यपेक्षाऽपि वृत्तावपि न हीयते” भर्तृ० । सा च शब्द- बोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः । अव + चाक्षुषदर्शने । “योत्स्यमानानवेक्षेऽहं य एतेऽत्र समा- गताः” गीता । “अवेक्षमाणोमहतीं मुहुर्मुहुः” माघः सम्यक्पर्य्यालोचने च । “यदवोचदवेक्ष्य सुन्दरी” किरा० । अनु + अव + पर्य्यालोचने अनुसन्धाने च “सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः” मनुः । अभि + अव + भोजनार्थेक्षणे । “यजमानस्य पशूनभ्यवेक्षते” शत० ब्रा० ११, १, ५, ११, “अभ्यवेक्षते अभ्यवहर्तुं पश्यति” भा० । परि + अव + समन्ताद्दर्शने । “ततो वाचस्पतिर्जज्ञे तं मनः पर्य्यवेक्षते भा० आश्व० २१ अ० । प्रति + अव + प्रतीत्य पर्य्यालोचनया दर्शने । “अथेमां प्रत्यवेक्ष- माणो जपति” शत० ब्रा० ५, ३, ४, २० । [] सम् + अव + सम्यग्दर्शने । “नृपोपमोऽयं समवेक्षते सभाम्” भा० वि० २१८ श्लो० । “यदि दृष्टं बलं सर्व्वं वयञ्च समवे- क्षिताः” भा० आ० २५ अ० । सम्यक्पर्य्यालोचने च “सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः । आ + सम्यग्दर्शने । “स्मयन्निवैक्ष्य पाञ्चालोम्” भा० स० २३८०१ उद् + ऊर्द्ध्वदर्शने । “सहस्ररश्मिना साक्षात् सप्रणामसुदी- क्षिताः” कुमा० । अपेक्षायाञ्च “त्रीणि वर्षाण्युदीक्षेत कुमार्य्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ईक्ष ङ दर्शने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं- सकं-सेट् ।) दर्शनमिह चाक्षुषज्ञानं प्रणिधानञ्च । ङ ईक्षते चन्द्रं लोकः । “न कामवृत्तिर्व्वचनीय- मीक्षते” । इति कालिदासः ॥ “निरीक्षिष्यामि यान्मुनीन् इति गणकृतानित्यत्वात्” इति रमानाथः ॥ “वस्तुतस्तु निरीक्ष्यते निरीक्षः पचादित्वादन् ततो निरीक्ष इवाचरतीतिक्वौ साध्यं” इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (1-215-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें