उपकुल्या स्त्री उप + कुल--अघ्न्या० नि० । १ पिप्पल्याम् (पिपुल) अम० “हरिद्रोपकुल्याविशालेत्यादि” सुश्रु० तत्पर्य्यायगुणादि भा० प्र० दर्शितं यथा “पिप्ली मागधी कृष्णा वैदेही चपला कणा । उपकुल्यौ- षणा शौण्डी कोला स्यात् तीक्ष्णतण्डुला । पिप्पली दीपनी वृष्या स्वादुपाका रसायनी । अनुष्णा कटुका स्निग्धा वातश्लेष्महरा लघुः । पित्तला रेचनी हन्ति श्वास- कासोदरज्वरान् । कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् । आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः । पित्तप्रश- मनी सा तु शुष्का पित्तप्रकोपिनी । पिप्पली मधुसंयुक्ता मृदुः कफविनाशिनी । श्वासकासज्वरहरी वृष्या मेधाग्नि वर्द्धिनी । जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली । कास्मजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् । द्विगुणः पि- [] प्पलीचूर्णाद्गुडोऽत्र भिषजां मते” ॥ उपगतः कुल्याम् कृत्तिमसरः अत्या० स० । कुल्योपगते त्रि० । २ सामी- प्यादौ अव्ययी० । ३ कुल्यासामीप्यादौ अव्य० ।
📄 मूल मुद्रित पृष्ठ (1198-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।