🕉️ 20 November 2026, Friday · 08:32:29 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उष्ट्र
uṣṭra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
उष्ट्र संज्ञा पुं॰ [सं॰]
१. ऊँट । क्रमेलक ।
२. रथ ।
३. डिल्ल या ककुदवाला साँड़ ।
४. महिष । भैंसा ।
४. बैलगाडी़ [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उष्ट्र m. (√ उष्, Uṇ. iv, 161; but probably connected with the above), a buffalo, RV.; AV. xx, 127, 2; 132, 13; VS.; ŚBr.; AitBr.
a camel, MBh.; Mn.; Pañcat. &c.
a cart, waggon, L.
N. of an Asura, Hariv.
📄 मूल मुद्रित पृष्ठ (220,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उष्ट्रः [उष्-ट्रन्-किच्च Uṇ. 4. 161] 1 A camel; अथोष्ट्रवामीशतवाहितार्थं R. 5. 32; Ms. 3. 162, 4. 120, 11. 202. --2 A buffalo. --3 A bull with a hump. --4 A cart or carriage. --ष्ट्री 1 A she-camel. --2 An earthen vessel in the shape of a camel. [cf. Pers. ushtar; Zend ustra.] --Comp. --कर्णिका (pl.) N. of a country or its inhabitants, in the south. --कांडी a flower of a red colour. --क्रोशिन् a. making a noise like a camel. --गोयुगं a couple of camels --ग्रीवः, --शिरोधरः piles. --यानं camel-litter.
📄 मूल मुद्रित पृष्ठ (0344-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उष्ट्र पुंस्त्री० उष + ष्ट्रन् किच्च । (उट) प्रसिद्धे पशुभेदे [] स्त्रियां जातित्त्वात् ङीष् । “हस्तिगोऽश्वोष्ट्रदमकोनक्षत्रैर्यश्च- जीवति” “नाधीयीताश्वमारूढो न रथं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” मनुः । तद्यान- निषेधमाह “उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वामाः पाणायामेन शुध्यति” मनुः । काततः” इत्यक्त्या कर्म्मभेदे तद्याने न दोष इति सूचितम् अतएव “उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि” पार० गृ० सू० मन्त्रलिङ्गेन तद्यानं विहितम् । तस्य मांसं न भक्ष्यम् “भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनूक्तेः । तेनास्य एकदन्तपङ्क्तियुक्तत्वम् । “गौरजो महिषः कृष्णः शूकरो गवयोरुरुः । द्विशफाः पशवश्चेमे अ- विरुष्ट्रश्च सत्तम!” भाग० उक्तेः गवादयः उष्ट्रान्ता द्विशफाः इति बोध्यम् । वृथा तद्घाते दोषः “मनुष्यमारणे क्षिप्रं चौरवत् किल्विषं भवेत् । प्राणभृसु महत्- स्वर्द्धं गोगजोष्ट्रहयादिषु” मनूक्तेः । ब्रह्महत्याशेष- पापेन तज्जातिर्भवति यथाह मनुः “यां यां यो- निन्तु जीवोऽयं येन येनेह कर्म्मणा । क्रमशो याति लोकेऽस्मिंस्तत्तत् सर्वं निबोधत । बहून् वर्षगणान् घोरा- न्नरकान् प्राप्य दारुणान् । संसारान् प्ततिपद्यन्ते महा- पातकिनस्त्विमे । श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षि- णाम् । चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति” । यान- हरणपापेऽप्युष्ट्रयोनिप्राप्तिमाह हृत्वेत्यनुवृत्तौ मनुः “स्त्री- मृक्षः स्तोककोवारि, यानान्युष्ट्रः, पशूनजः । तद्बधे प्रायश्चि- त्तमाह “हयच्छागाविकोष्ट्रेषु गर्द्दभेषु च मारणात् । प्राजा- पत्यार्द्धमेवेह प्रायश्चित्तं विधीयते” प्रा० वि० विष्णुः । तद्भ- क्षणे प्रायश्चित्तमाह भुक्त्वेत्यनुवृत्तौ प्रा० वि० शङ्खः “गामश्वं कुञ्जरौष्ट्रौ च सर्वं पञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरव्रतम्” “अथोष्ट्रवामीशतवाहितार्थः” रघुः । “वृतिञ्च तत्र कुर्व्वीत यामुष्ट्रोनावलोकयेत्” मनुः । “अन्योन्यतः पथि वताबिमीतामिभोष्ट्रौ” माघः । तन्मूत्रगुणाः सुश्रु० उक्ताः । “अथ मूत्राणि गोमहि- षाजाविगजहयखरोष्ट्राणां तीक्ष्णानि कटून्युष्णानि ति- क्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमि- भेदोविषगुल्मार्शौदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः । भवन्ति चात्र । तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु । शोधनं कफ- वातघ्नं कृमिमेदोविषापहम् । अर्शोजठरगुल्मघ्नं शोफा- रोचकनाशनम् । पाण्डुरोगहरं भेदि हृद्यं दीपनपाच- [] नम्” । सामान्यत उक्त्वा “अर्शोघ्नं कारभं मूत्रमिति” विशे- षगुण उक्तः । तन्मांसगुणाःसुश्रुते उक्ताः तच्च उरभ्रशब्दे दर्शितम् । तस्य ग्राम्यत्वं तत्रोक्तम् । तच्च उरभ्रशब्दे दर्शितम् । किन्तु तस्यारण्यत्वमपि अतएव “उष्ट्रमारण्य- मनु ते दिशामि” यजु० १३, २४, तस्यारण्यत्वमुक्तम् । तस्य त्वष्टृदेवतायै अश्वमेधे देयतोक्ता “वृहस्पतये गवयां- स्त्वष्ट्र उष्ट्रान्” यजु० २४, २८, द्वित्वे गोयुगच् उष्ट्रगोयुग उष्ट्रद्वित्वे न० शालायां गोष्ठच् । उष्ट्रगोष्ठ उष्ट्रशालायां न० षट्के षड्गवच् । उष्ट्रषड्गव उष्ट्रषट्के न० । तस्ये- दमण् । औष्ट्र तत्सम्बन्धिमांसादौ त्रि० । “परं चौष्ट्रं मैषं नरमहिषयोश्छागमपि वा” कर्पूरस्तवः ।
📄 मूल मुद्रित पृष्ठ (1379-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
उष्ट्रः, पुं, (उष + “उषिखनिभ्यां कित्” । ४ । १६१ । इत्युणादिसूत्रेण ष्ट्रन् किच्च ।) वाह्यरथः । इति धरणी ॥ पशुविशेषः । उट् इति भाषा । तत्प- र्य्यायः । क्रमेलकः २ मयः ३ महाङ्गः ४ । इत्य- मरः ॥ दीर्घगतिः ५ बली ६ करभः ७ दासेरकः ८ धूसरः ९ लम्बोष्ठः १० रवणः ११ महाजङ्घः १२ जवी १३ जाङ्घिकः १४ दीर्घः १५ शृङ्खलकः १६ महान् १७ महाग्रीवः १८ महानादः १९ महा- ध्वगः २० महापृष्ठः २१ बलिष्ठः २२ । इति राज- निर्घण्टः ॥ दीर्घजङ्घः २३ ग्रीवी २४ धूम्रकः २५ शरभः २६ । इति जटाधरः ॥ क्रमेलः २७ कण्ट- काशनः २८ भोलिः २९ बहुकरः ३० अध्वगः ३१ मरुद्विपः ३२ वक्रग्रीवः ३३ । इति शब्दरत्नावली ॥ वासन्तः ३४ कुलनाशः ३५ । इति त्रिकाण्डशेषः ॥ कुशनामा ३६ मरुप्रियः ३७ द्विककुत् ३८ दुर्ग- लङ्घनः ३९ भूतघ्नः ४० दासेरः ४१ दीर्घग्रीवः ४२ केलिकीर्णः ४३ । इति हेमचन्द्रः ॥ (यथा मनुः ४ । १२० । “नाधीयिताश्वमारूढो न रथं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” ॥ “उष्ट्रयानं समारुह्य खरयानं तु कामतः” । इति च मनुः । ११ । २९ ॥)
📄 मूल मुद्रित पृष्ठ (1-276-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "उष्ट्र" आता है (7)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें