कनिष्ठ त्रि० अतिशयेन युवा अल्पो वा इष्ठन् कनादेशः । १ अतितरुणे २ अत्यल्पे । ३ अनुजे पु० स्त्री । ४ दुर्वलाङ्गलौ [] अल्पाङ्गुलौ (कडेआङ्गल) स्त्री मेदि० । ५ कनिष्ठस्य भा- र्य्यायां ६ अल्पवयस्कायां स्त्रियाम् स्त्री । तत्र पुंयोगलक्षणं ङीषं वयोवाचिलक्षणं ङीयं च बाधित्वा अजादि- पाठात् टाप् । ७ नायिकाभेदे सा च रमसञ्जर्य्यां धीरा- ऽधीराधीराधीराभेदेन त्रिविधेति विभज्य परिणीतत्वे सति भतृंन्यूनस्नेहा कनिष्ठेति लक्षयित्वा धीराधी- रादिज्यष्ठकनिष्ठयोरुदाहरणमुक्तम् तत्र धीरे ज्येष्ठा- कनिष्ठे यथा “एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय निद्रार्त्तयोरेकां पल्ववितावगुण्ठनवतीमुत्कन्धरीं दृष्ट- वान्” । अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता ङ्गुलिव्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं कॢप्त- वान् । अधीरे ज्येष्ठाकनिष्ठे यथा “अन्तः कोपकषायिते प्रियतम पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदना मेकां समायोजयन् । अर्द्धोन्मीलितलोचनाञ्चलचमत्का- राभिरामाननां स्मेराभाधरपल्लवां नवबधूमन्यां समालि- ङ्गति” । घीराधीरे ज्येष्ठाकनिष्ठे यथा “धैर्य्याधैर्य्यपरि- ग्रहग्रहिलयोरेणीदृशोः प्रीतये रत्नद्वन्द्वमनन्तकान्ति रुचिरं मुष्टिद्वये न्यस्तवान् । एकस्याः कलयन् करे प्रथम- तोरत्नं परस्याःप्रियो हस्ताहस्तिमिषात् स्मृशन् कुचतटी मानन्दमाविन्दति” । ८ अत्यल्पपरिमिते त्रि० । “गायत्री छन्दसां कनिष्ठा “तैत्ति० ६, १, ६, ३ । वैदिक- छन्दसां गायत्र्याः प्रथमत्वेन उष्णिगादितीऽल्पाक्षरत्वात् कनिष्ठत्वम् “तद्वै कनिष्ठ छन्दः यद् गायत्री प्रथमा छन्द- सां युज्यते” शत० १, ८, २, १० । ९ उत्तरकालजाते त्रि० । “गर्द्दभः कनिष्ठं पशूना प्रजायते” तैत्ति० ५, १, ५, ५ । “अथ यदजाः कनिष्ठानि पात्राणि खलु प्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रोन् विजनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राणि खलु प्रजायन्ते” शत० ब्रा० ४, ५, ५, ९ । १० अधःपदे ११ अधरे च त्रि० । “छाययेवायं पुरुषः पाप्मनानुषक्तः सोऽस्य एव कनिष्टो भवत्यधःपदमिवेयस्यते तत्कनिष्ठमिति” शत० व्रा० २, २, ३, २ । १२ परजातमात्रे । “अन्वञ्चोऽमात्या अधो- निवीताः प्रकृत्तशिखाः ज्योष्ठप्रथमाः कनिष्ठजघन्याः” आ० ४, २, ९ । “यो यः कनिष्ठः स पृष्ठतो गच्छेत् नारा० “पुत्रः कनिष्ठः ज्येष्ठायां कनिष्ठायाञ्च पूर्वजः” मनुः । “सर्वं ज्येष्ठः कनिष्ठश्च संहरेतां यथोदितम्” “येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यात् सव्ययं धनमिति” मनुः “सरत्रिः स्यादरत्निस्तु निष्कनिष्टेन सुष्टिना” अमरः । [] कनिष्ठायाः अपत्यं ढकञ्--इनुक् । कानिष्ठिनेय कनिष्ठाया अपत्ये । “कृते कानिष्ठिनेयस्य भरतस्य विवासितम्” भट्टिः । १३ महादेवे पु० “नमो ज्येष्ठाय कनिष्ठाय च” यजु० १६, ३२ । तस्य च “अणोरणीयान् महतोमहीयान्” इति श्रुत्या अणुतरत्वक्तोक्तेः कनिष्टत्वम् ।
📄 मूल मुद्रित पृष्ठ (1646-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।