अवम त्रि० अव + अमच । १ रक्षके २ पितृगणभेदे पु० “अव- मैस्त ऊर्व्वेः काव्यैस्ते पितृभिभक्षितस्य मधुमतोनाराशंसस्य” ता० ब्रा० “त्रिविधाः पितरः अवभाः ऊर्व्वाः काव्याश्चेति अनुसवनं नारांशंसदेवताः । हे सोम! अवमैः रक्षकैः एतत्संज्ञकैः पितृभिः” भा० । अपादानेऽमच् । ३ पापे ४ तद्वति ५ कुत्सिते च त्रि० । अवोभवः अवस्ताद्भवः “अवोऽ- धसोर्लोपश्चेति” मः अन्त्यलोपः । ६ अधमे त्रि० “अनल- कानलकानमवमां पुरीम्” रघुः । “या त ऊक्तिरवमा या परमा” ऋ० ६, २५, १, “उतावमस्य पुरुहूत बोधि” ऋ० ६, २१, ५ “प्रकृतानां सावनानाञ्चान्द्राणाञ्चान्तरमवमानीच्यते सावनदिनेभ्यश्चान्द्राहा यावद्भिरधिकास्ते दिनक्षस्याहा” इति च प्रमिताक्षरोक्ते ७ दिनक्षये न० । तदानयनप्रकारश्च सि० शि० “शशाङ्कमासोनितसाबनेन०, २८, १० त्रिंशद्धताः लब्धदिनैस्तु चान्द्रेः । रुद्रांशकोनाब्धिरसैः ६३, ५४, ३३ क्षयाहः, स्यात् सावनोऽतश्च युगेऽनुपातात्” । युगे चान्द्राणां सावनानां च यदन्तरं तान्यवमानि । तत्र एकस्मिन् मासे चान्द्रसावनान्तरं कुदिनात्मकं गृहीतम् । तत्र दिवसः शून्यम् अष्टाविंशतिर्घटिकाः दश पानीयपलानि ०, २८, १० इदमेकस्मिन् चान्द्रमासे त्रिंशत्तिथ्यात्मके कुदिनात्मकमवसखण्डम् । यद्यनेन०, २८, १०, त्रिंश- द्दिनानि चान्द्राणि लभ्यन्ते तदा सपूर्णैनैकेनावमेन कियन्तीति त्रैराशिकेन लब्धैः रुद्रांशकोनाब्धिरसैः ६३, ५४, ३३ एकः क्षयाहो भवति स च सावनः एवं कल्पेऽपि अनुपातात् । “सावनान्यवमानि स्युश्चान्द्रेभ्यः साधितानि चेत् । सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्वशा- त्तथा” इति सि० शि० । कल्पेऽवमप्रमाणञ्च दर्शितं तत्रैव । “दिनक्षयास्तत्र सहस्रनिघ्नाः खवाणवाणाश्व्यहिखेषुदस्राः” २५०८२५५०००० । अन्तरं तरणिचन्द्रचक्रजं यद्भवेत् स विधुमाससंचयः । चन्द्रवक्रदिवसैक्यमूनितं चन्द्रमासभदिनै र्दिनक्षयाः” “अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येन वर्ज्जिते क्षयाहाः स्युः । अत्र वासना । चन्द्रभगणा रविभगणैरूनाश्चान्द्रमासाः स्युः अतो विपर्य्ययाच्चान्द्रमासोना- श्चन्द्रभगणा रविभगणा भवन्ति तैरूना भभ्रमाः सावना दिवसा भवन्ति । चान्द्राहाः क्षयाहा भवन्ति” प्रमिता० । “तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यमव- दिनम्” ज्योति० त०
📄 मूल मुद्रित पृष्ठ (0431,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।