🕉️ 19 November 2026, Thursday · 10:29:46 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

करंज
karaṃja
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
करंज संज्ञा स्त्री॰ [हिं॰ करञ्ज]
१. कंजा ।
२. एक छोटा जंगली पेड़ जिसकी पत्तियाँ सीसम की सी पर कुछ बड़ी होती हैं । इसकी डाल बहुत लचीली होती है । इसकी टहनियों की लोग दातून करते है ।
३. एक प्रकार की आतिशबाजी ।
करंज २ संज्ञा पुं॰ [सं॰ कलिङ्ग, फा॰ कुलंग] मुरगा । यौ॰—करंजखाना ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
करञ्ज m. the tree Pongamia Glabra (used medicinally), Āp.; Suśr.; MBh. iii
N. of an enemy of Indra (slain by this god), RV. i, 53, 8
📄 मूल मुद्रित पृष्ठ (254,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
करंजः [कंशिरो जलं वा रंजयति Tv.] N. of a tree (used in medicinal preparations).
📄 मूल मुद्रित पृष्ठ (0380-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
करञ्ज पु० कं शिरः जलं वा रञ्जयति अण् । (करकचा) इति ख्याते वृक्षे । करञ्जपर्य्यायगुणादि भावप्र० उक्तं यथा । “करञ्जो नक्तमालश्च करजश्चिरविल्वकः । घृतपूर्णकरञ्जो- ऽन्यः प्रकीर्यः पूतिकोऽपि च । स चोक्तः पूतिकरजः सो- मवल्कश्च स स्मृतः । करञ्जःकटुकस्तीक्ष्णो वीर्य्योष्णोयोनि- दोषहृत् । कुष्ठोदावर्त्तगुल्मार्शो व्रणकृमिकफापहः । तत्पत्र कफवातार्शःकृमिशोथहरं परम् । भेदनं कटुकं पाके वीर्य्योष्णं पित्तलं लघु । तत्फलं कफवातघ्नं मेहा- र्शःकफकृमिकुष्ठजित् । घृतपूतिकरञ्जोऽपि करञ्जसदृशो गुणैः” । उदकीर्य्यपर्य्याये तु स्त्रीत्वमपि गौरा० ङीष् । प्रावप्र० “उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्थाहस्तिवारुणो । मर्क्कटो वायसी चापि करञ्जी करभञ्जिका” । तद्गुणाश्च तत्रैवोक्ताः “करञ्जी स्तम्भनी तिक्ता तुवरा कटुकाशिनी । वीर्य्योष्णा वमिपित्तार्शःकृमिकुष्ठप्रमेहजित्” । तत्तैलगुणाश्च । “करञ्जतैलं सुस्निग्धं वातहृत् स्थिरदीप्तिकृत् । नेत्रा- मयवातरोगकुष्ठकण्डूविसूचिकाः । नाशयेत्तीक्ष्णमु- [] ष्णञ्च लेपनाच्चर्मदोषहृत्” राजनि० । स्वार्थे कन् कर- ञ्जकोऽप्यत्र पु० “यस्तु प्तंवत्सरं पूर्णं दीपं दद्यात् करञ्जके । सुवर्चलामृलहस्तः प्रजा तस्य विवर्द्धते” मा० आनु० १२७ अ० । अन्यमते करञ्जभेदाश्चत्वारः । (डहर- करमचा) (लाटाकरजा) (काँटाकरमचा)” (अम्रकरमचा) इति भाषाप्रसिद्धनामभेदात् “यत् पर्ण्णपघ्न उत वा कव- ञ्जहे” ऋ० १०१ ०४८, ८ ।
📄 मूल मुद्रित पृष्ठ (1688-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
करञ्जः, पुं, (कं सुखं शिरो जलं वा रञ्जयतीति । क + रञ्ज + णिच् + अण् ।) स्वनामख्यातवृक्षविशेषः । करम्चा इति भाषा । तत्पर्य्यायभेदौ यथा, -- “करञ्जकः स्यात् करजः पत्रसूची फलाशनः । आङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवल्लरी । करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे” ॥ इति शब्दरत्नावली ॥ अपि च । “चिरविल्वो नक्तमालः करजश्च करञ्जकः । सोमवल्कः कलिङ्गस्तु पूतिकः कलिकारकः ॥ प्रकीर्य्यः पूतिकरजः पट्टिलः सुमना अपि । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी” ॥ इति जटाधरः ॥ स षड्विधः । तत्र डरकरञ्ज- पर्य्यायः । नक्तमालः २ पूतिकः ३ चिरविल्वकः ४ पूतिपर्णः ५ बद्धफलः ६ रोचनः ७ । इति राज- निर्घण्टः ॥ चिरविल्वः ८ करजः ९ करञ्जकः १० । [] इत्यमरः । २ । ४ । ४७ ॥ चिरिविल्वः ११ । इति तट्टीका ॥ उदकीर्य्यः १२ । इति रत्नमाला ॥ * ॥ अस्य फलगुणाः । कटुत्वम् । उष्णत्वम् । चक्षुर्हितत्वम् । वातनाशित्वञ्च । इति राजनिर्घण्टः ॥ वातकफ- मेहतनःकृमिकुष्ठनाशित्वञ्च ॥ * ॥ तत्पत्रगुणाः । कफवातार्शःकृमिशोथनाशित्वम् । भेदकत्वम् । पाके कटुत्वम् । वीर्य्योष्णत्वम् । पित्तवर्द्धकत्वम् । लघुत्वञ्च । इति भावप्रकाशः ॥ * ॥ ततैलगुणाः । अतिस्निग्धत्वम् । वातनाशित्वम् । स्थिरदीप्ति- दातृत्वम् । नयनामयवातरोगकुष्टकण्डूविसूचिका- नाशित्वम् । तीक्ष्णत्वम् । उष्णत्वम् । लेपेन नाना- विधचर्म्मदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ किटिमत्वम् । कृमिनाशित्वम् । रक्तपित्तदोष- कारित्वञ्च । इति राजवल्लभः ॥ * ॥ अथ नाटा- करञ्जपर्य्यायः । प्रकीर्य्यः १ पूतिकरजः २ पूतिकः ३ कलिकारकः ४ । इत्यमरः २ । ४ । ४८ ॥ पूती- करञ्जः ५ सकण्टकः ६ । इति रत्नमाला ॥ * ॥ षड्ग्रन्थः । काँटाकरञ्ज गाँटिया करञ्ज इति भाषा ॥ * ॥ मर्कटी । माकडाकरञ्ज इति भाषा ॥ * ॥ अङ्गारवल्लरी । इत्यमरभरतौ विषकरञ्ज इति भाषा ॥ * ॥ अथ अम्लकरञ्जपर्य्यायः ॥ करमर्द्दी १ वनेक्षुद्रा २ कराम्लः ३ करमर्द्दकः ४ । इति रत्नमाला ॥ कृष्णपाकफलः ५ अविग्नः ६ सुषेणः ७ । इत्यमरः । २ । ४ । ६७ ॥ अस्य फलगुणाः । पिपासानाशित्वम् । रुचिपित्तकारित्वम् । गुरु- त्वञ्च । इति राजवल्लभः ॥ राजनिर्घण्टोक्तगुण- पर्य्यायौ करमर्द्दकशब्दे द्रष्टव्यौ ॥ (यथा, महाभारते ३ । २२९ । ३५ । “पादपानाञ्च या माता करञ्जनिलया हि सा । वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी । करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो नराः” ॥ किरति विक्षिपति धार्म्मिकानिति । कॄ विक्षेपे + बाहुलकादौणादिकोऽञ्जन्प्रत्ययः । धर्म्मद्वेष्ठरि, त्रि । यथा ऋग्वेदे । १ । ५३ । ८ । “त्वं करञ्जमुत पर्ण्यं बधी- स्तेजिष्ठयातिथिग्वस्य वर्त्तनी” ॥)
📄 मूल मुद्रित पृष्ठ (2-030-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "करंज" आता है (19)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें