कर्त्त शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादने अ० चु० सक० सेट् । कर्त्तयति ते मतान्तरे कर्त्तापयति ते अचकर्त्तत्--त कर्त्तयाम्--वमूव आस चकार चक्रे । कर्त्त यिता कर्त्यात् कर्त्तयिषीष्ट कर्त्तयिष्यति ते । कर्त्तनीयः कर्त्तयितव्यः । कर्त्तयिता कर्त्तितः । कर्त्तनं कर्त्तना । क र्त्तयितुम् कर्त्तयित्वा आकर्त्त्य । कर्म्मणि कर्त्त्यते अकर्त्तिं अकर्त्तयिषाताम्--अकर्त्तिवाताम् कर्त्तिता- कर्त्तियिता कर्त्तयिष्यते कर्त्तिष्यते--“एवाहं सर्वं दुर्भूतं कर्त्रं कृत्या कृताकृतम्” अथ० १०, १, ३२ । “अपि क- र्त्तमवर्त्तयोऽयज्यून्” ऋ० १, १२१, १३ ।
कर्त्त पु० कर्त्तयति शिथिलीकरोति कर्त्तं--अच् । १ कूपे “त्राध्वं कर्त्तादपपदो यजत्राः!” यजु० ३३, ५१, कर्त्तात् कूपात्” वेददी० । कृत--भावे घञ् । २ भेदे च । “सध्र्यङ्नि- यम्य यतयो यमकर्त्तहेतिम्” भाग० २, ७, ४९, कृत--चत् । ३ छेदके त्रि० । “वृकस्य कर्त्तादवपदोयजत्राः” ऋ० २, ३०, ६ । “हे यजत्राः अवपदः आपदः कर्त्तात् कर्त्तुः” भा० ।
📄 मूल मुद्रित पृष्ठ (1715,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।