🕉️ 19 November 2026, Thursday · 03:46:13 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

काशी
kāśī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
काशी संज्ञा स्त्री॰ [सं॰] उत्तरीय भारत की एक नगरी जो वरुणा और अस्सी नदी के बीच गंगा के किनारे बसी हुई है और प्रधान तीर्थस्थान भी है । वारणसी । बनारस । विशेष—काशी शब्द का सबसे प्राचीन उल्लेख शुक्लयजुर्वेदीय शतपथ ब्राह्नण और ऋग्वेद के कौशीतक ब्राह्मण के उपनिषद् में पाया जाता है । रामायण के समय में भी काशी एक बड़ी समृद्ध नगरी थी । ईसा की ५वीं शताब्दी में जब फाहियान आया था, तब भी वाराणसी एक विस्तृत प्रदेश की प्रसिद्ध नगरी समझी जाती थी । यह सात प्रसिद्ध तीर्थपुरियों में गिनी गई है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
काशी f. = काशि, Benares q.v.
N. of the wife of Sudeva and mother of Supārśva, Hariv. 9204; VP.
काशी See above.
📄 मूल मुद्रित पृष्ठ (280,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
काशिः, --शी f. N. of a celebrated city on the Ganges, the modern Benares and one of the seven sacred cities; see कांची. --शिः 1 The clenched hand, fist. --2 A handful. --3 The sun. --4 Light, splendour. --Comp. --पः an epithet of Śiva. --राजः N. of a king, father of अंबा, अंबिका and अंबालिका, q. v.
काशी See काशि. --Comp. --नायः an epithet of Śiva. --यात्रा pilgrimage to Benaras.
📄 मूल मुद्रित पृष्ठ (0401-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
काशी स्त्री काशते काश--इन् स्त्रियां ङीप् । काश- णिच्--अच् गौरा० ङीष् । असिवरुणयोर्मध्यवर्त्तिन्यां स्वनामख्यातायां शिवपुर्य्याम् । तन्निरुक्त्यादि काशीख० । “निर्व्वाणकाशनाद्यत्र काशीति प्रथिता पुरी । अविमुक्ते महाक्षेत्रे न मुक्ते शम्भुना क्वचित् । प्रागेव हि मुनेऽनर्घ्यं जातं जाम्बुनदं स्वयम् । पुनः स्वर्धुनि- तोयेन हीरेण यदि सङ्गतम् । चक्रपुष्करिणीतीर्थं प्रागेव श्रेयसांपदम् । ततः श्रेष्ठतरं शम्भोर्मणिश्र- वणभूषणात् । आनन्दकानने तस्मिन्नविमुक्ते शिवा- [] लवे । प्रागेव मुक्तिः संसिद्धा गङ्गा--सङ्गात्ततोऽधिका । यदाप्रभृति सा गङ्गा मणिकर्णीसमागता । तदा- प्रभृति तत् क्षेत्रं दुष्प्रापं त्रिदशैरपि । कृत्वा कर्माण्य- नेकानि कल्याणानीतराणि च । तानि क्षणात् समुत्- क्षिप्य काशीसंस्थोऽमृतो भवेत् । तस्य वेदान्तवेद्यस्य निदिध्यासनतो विना । विना साङ्ख्येन योगेन काश्यां संस्थोऽमृतो भवेत् । कर्म्मनिर्मूलनकृता विना ज्ञानेन कुम्भज! । शशिमौलिप्रसादेन काश्यां संस्थोऽमृतोभवेत् । यत्नतोऽयत्नतो वापि कालात् त्यक्त्वा कलेवरम् । तारक- स्योपदेशेन काशीसंस्थोऽमृतो भवेत् । अनेकजन्मसं- सिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः । असिसंभेदयोगेन काशी- संस्थोऽमृतो भवेत् । देहत्यागोऽत्र वै दानं देहत्यागोऽ- त्र वै तपः । देहत्यागोऽत्र वै योगः काश्यां निर्व्वाणसौ- ख्यकृत् । प्राप्योत्तरवहां काश्यामपि दुष्कृतवानपि । यायात स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् । महेन्द्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान् । सर्व्वान् सर्वेशमालोक्य रक्षाञ्चक्रुः पुरा पुरः । असिन्महासि- रूपाञ्च पापिसङ्गतिखण्डिनीम् । दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्म्ममुः । वरणाञ्च व्यधुस्तत्र क्षेत्रविघ्न निर्वारिणीम् । दुर्वृत्तस्य प्रवृत्तेश्च निवृत्तिकरणीं सुराः । दक्षिणोत्तरदिग्भागे कृत्वासिं वरणां सुराः । क्षेत्रस्य मोक्षनिःक्षेपरक्षां निर्वृतिमाययुः । क्षेत्रस्य पश्चाद्दिग्भा- गे तं देहलिविनायकम् । स्वयं व्यापारयामास रक्षार्थं शशिशेखरः । अनुज्ञातप्रवेशानां विश्वेशेन कृपाव- ताम् । ते प्रवेशं प्रयच्छन्ति नान्येषां हि कदाचन” । अत्रार्थे प्राचीनेतिहासमुक्त्वा माहात्म्यादिकमुक्तं यथा- “एवं काश्यां प्रविश्यापि पापी धर्म्मानुषङ्गतः । न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात् । तस्माद्विश्वेश्व- राज्ञैव काशीवासेऽत्र कारणम् । असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते । वाराणसीति विख्याता तदारभ्य महामुने! । असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका । वाराणसीह करुणामयदिव्यमूर्त्तिरुत्सृज्य यत्र तु तनुं तनुभृत् सुखेन । विश्वेशदृङ्महसि यत् सहसा प्रवि- श्य रूपेण तां वितनुतापदवीन्दधाति । जातो मृतो बहुषु तीर्थवरेषु रे त्वं जन्तो! न जातु तव शान्तिरभून्नि- मज्य । वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात् स्मरशासनः स्याः । अन्यत्र तीर्थसलिले पतितो द्विजन्मा देवादिभावमयते न तथा तु काश्याम् । [] चित्रं यदत्र पतितःपुनरुत्थितं न प्राप्नोति पुक्वशजनोऽपि किमग्रजन्मा । सैषा पुरी संसृतिरूपपारावारस्य पारं पुरुषः पुरारिः । यस्यां परं पौरुषमर्थमिच्छन् सिद्धिं नयेत् पौरपरम्परासः । तीर्थान्तराणि मनुजः परि- तोऽपगाह्य हित्वा तनुं कलुषितां, दिवि दैवतं स्यात् । वाराणसीपरिसरे तु विसृज्य देहं सन्देहभाग्भवति देहल- वाप्तयेऽपि । वाराणसी शमवशीकरणादृतेऽपि योगादयो- गिजनताञ्जनतापहन्त्री । तत्तारकं श्रवणगोचरतां नयन्ती तद्ब्रह्म दर्शयति येन पुनर्भवो न । वाराणसी- परिसरे तनुमिष्टदात्रीं धर्म्मार्थसौख्यनिलयामह हा विसृज्य । इष्टं पदं किमपि हृष्टतर
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
काशी, स्त्री, (काशते शिवत्रिशूलोपरि । काशृङ् दीप्तौ + अच् गौरादित्वात् ङीष् । काश + इन् ङीप् वा । अथवा काशयति प्रकाशयतीदं सर्व्वं या । काश् + णिच् अच् गौरादित्वात् ङीष् ।) स्वनामख्याततीर्थम् । शिवपुरी । तत्प- र्य्यायः । वाराणसी २ तीर्थराजी ३ तपःस्थली ४ । इति जटाधरः ॥ काशिका ५ । इति शब्दरत्ना- वली ॥ काशिः ६ । इत्युणादिकोषः ॥ अविमुक्तम् ७ आनन्दवनम् ८ आनन्दकाननम् ९ अपुनर्भवभूमिः १० रुद्रावासः ११ महाश्मशानम् १२ । तस्या उत्पत्तिर्यथा, -- “ततस्तदैकलेनापि स्वैरं विहरता मया । स्वविग्रहात् स्वयं सृष्टा स्वशरीरानपायिनी ॥ प्रधानं प्रकृतिं त्वां तु मायां गुणवतीं पराम् । बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा । मयाद्य पुरुषेणैतत् क्षेत्रञ्चापि विनिर्म्मितम्” ॥ स्कन्द उवाच । सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः । ताभ्याञ्च रममाणाभ्यां तस्मिन् क्षेत्रे घटोद्भव ! ॥ परमानन्दरूपाभ्यां परमानन्दरूपिणि ! । पञ्चक्रोशपरीमाणे स्वपादतलनिर्म्मिते ॥ मुने प्रलयकालेऽपि न तत् क्षेत्रं कदाचन । विमुक्तं न शिवाभ्यां यदविमुक्तं ततो विदुः ॥ न यदा भूमिवलयं न यदापां समुद्भवः । [] तदा विहर्त्तुमिशेन क्षेत्रमेतत् विनिर्म्मितम् ॥ इति काशीखण्डम् ॥ तत्र कर्त्तव्ययात्राविधानं यथा, -- सूत उवाच । “यात्रापरिक्रमं ब्रूहि जनानां हितकाम्यया । यथावत् सिद्विकाप्तानां सत्यवत्याः सुतोत्तम ! ॥ व्यास उवाच । निशामय महाप्राज्ञ लोमहर्षण ! वत्र्मि ते । यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा ॥ सचेलमादौ संस्नाय चक्रपुष्करिणीजले । सन्तर्प्य देवान् सपितॄन् ब्राह्मणांश्च तपस्विनः ॥ आदित्यं द्रौपदीं विष्णुं दण्डपाणिमहेश्वरम् । नमस्कृत्य ततो गच्छेत् द्रष्टुं ढुण्ढिविनायकम् ॥ ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्च्चयेत् । तारकेशं समभ्यर्च्च्य महाकालेश्वरं ततः ॥ ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका । दैनन्दिनी विधातव्या महाफलमभीप्सुभिः” ॥ * ॥ “ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धये । द्विसप्तायतनानाञ्च कार्य्या यात्रा प्रयत्नतः ॥ कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि । अथवा प्रतिभूतञ्च क्षेत्रशुद्धिमभीप्सुभिः ॥ तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः । मौनेन यात्रां कुर्व्वाणः फलं प्राप्नोति यात्रिकः ॥ ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः । त्रिपिष्टपं महादेवं ततो वै कृत्तिवाससम् ॥ रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् । धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥ विश्वकर्म्मेश्वरं चाथ मणिकर्णीश्वरं ततः । अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ॥ एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः । यस्तु क्षेत्रमुषित्वापि नैतां यात्रां समाचरेत् ॥ विघ्नास्तस्योपजायन्ते क्षेत्रोच्चाटनसूचकाः” ॥ * ॥ “अष्टायतनयात्रान्या कर्त्तव्या विघ्नशान्तये ॥ दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः । गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ॥ अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः । दृश्यान्येतानि लिङ्गानि महापापोपशान्तये” ॥ * ॥ “अपरापि शुभा यात्रा योगक्षेमकरी सदा । सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवासिभिः ॥ शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्व्वकम् । स्नानन्तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः ॥ स्वर्नीलतीर्थे सुस्नातः पश्येत् स्वर्नीलमीश्वरम् । स्नात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः ॥ पश्येद्धिरण्यगर्भेशं तत्र तीर्थकृतोदकः । पञ्चचूडह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत् ॥ चतुःसमुद्रकूपे तु स्नात्वा देवं ततोऽर्च्च
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "काशी" आता है (18)
वराणसी वाराणसी । काशीशिवपुरी शिव जी की पुरी, वाराणसी । काशीतपःस्थली काशीतीर्थराजी काशी । विशेष—काशी में सब तीर्थ हैं, इसी से यह नाम पड़ा हैत्रिस्थली काशी, गया और प्रयाग ये तीन पुण्य स्थानपंचक्रोश पंचकोस । काशीतीर्थराजि काशीमुक्तिक्षेत्र वाराणसी । काशीबनारस काशी । वाराणसीआनंदबन काशी । वारणसी । अविमुक्त क्षेत्र । बनारस । सप्तपुरियों में से चौथीईशदगरी काशीपंचकोस पाँच कोस की लंबाई ओर चौड़ाई के बीच वसी हुई काशी की पवित्र भूमि । काशीकाशि तेज । प्रकाशअविमुक्त जो विमुक्त न हो । बद्धदायभाग पैतृक धन का विभागचक्रतीर्थ दक्षिण में वह तीर्थ स्थान जहाँ ऋष्यमूक पर्वतों के बीच तुंगभद्रा नदी घू…धर्मपीठ धर्म का प्रधान स्थानसप्तपुरी सात पवित्र नगर या तीर्थ जो मोक्षदायक कहे गए हैं । विशेष—अयोध्या, मथुरा…
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें