🕉️ 19 November 2026, Thursday · 11:24:27 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कुज
kuja
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कुज वि॰ [मंगल के समान] लाल रंग का । लाला । उ॰—(क) फहरी अनंत सोहैं धुजा । सित स्याम रंग कीति कुजा ।— सूदन (शब्द॰) । (ख) बहु स्याम धुजा बहुरंग कुजा ।— सूदन (शब्द॰) ।
कुज ३ क्रि॰ वि॰ [फा॰ कुजा = कहाँ, क्यों] कहाँ । किस जगह । उ॰—कुज रौला पाया अलमां कुज कागजां पाया भल्ल ।— संतवाणी॰, भा॰१, पृ॰ १५१ ।
कुज ४ पु † वि॰ [हिं॰ कुछ] दे॰ कुछ । उ॰—वहां कुजऐतबार सिफत का नहीं सिबाए एकानियत के ।—दक्खिनी॰, पृ॰ ४४२ । यौ॰—कुजकोई = हर एक । प्रत्येक । जो चाहे । उ॰—कुजकोई चुंबन करे गनका हंदो गाल । कुजकोई खांवण करै मावड़ि- यारो माल ।—बांकी॰ ग्रं॰, भा॰ २, पृ॰ १५ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कु—ज m. ‘born from the earth’, a tree, L.
‘the son of the earth’, N. of the planet Mars, VarBṛS.
of the Daitya Naraka (conquered by Kṛṣṇa), BhP.
कु—ज n. the horizon (= क्षिति-ज)
कु-ज See 2. कु.
📄 मूल मुद्रित पृष्ठ (286,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कुजः 1 A tree; Pt. 3. 93. --2 The planet Mars. --3 N. of a demon killed by Kṛṣṇa (also called नरक q. v.). --जा N. of Sītā; also of Durgā.
📄 मूल मुद्रित पृष्ठ (0406-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कुज स्तेये भ्वा० पर० सक० सेट् । कोजति अकोजीत् चुकोज उदित् कुजित्वा कुक्क्त्वा । प्रनिकुजति
कुज पु० कोः पृथिव्या जायते जन--ड । मङ्गलग्रहे यथा च तस्य तज्जातत्वं तथा आवनेयशब्दे काशीखण्डवाक्येन दर्शितम् २ नरकासुरे तस्य वाराहीरूपायाः पृथिव्याउ- त्पन्नत्वात् तथात्वम् तत्कथा कालिकापुराणे ३६ अ० यथा “यथा स नरकोजातो धरागर्भे महासुरः । रजस्वलाया गोत्रायागर्गे वीर्य्येण पोत्रिणः (वराहस्य) । यतोजा- तस्ततोभूतो देबपुत्रोऽपि सोऽसुरः” इत्युपक्रम्य “गर्भसंस्थं महावीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः । गर्भ- एव तदा देवशक्त्या दध्रुश्चिरं दृढम् । यथाकालेऽपि सं- प्राप्ते नो गर्भाज्जायते स च । ततस्त्यक्तशरीरस्तु वरा- हस्तनयैः सह । अतीव शोकसन्तप्ता जगद्धात्र्यभवत् क्षितिः । शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः । प्र- कृतिस्था क्षितिर्भूता माधवेन प्रबोधिता । ततः का- लेऽपि संप्राप्ते देवशक्त्या यदा धृतः । न गर्भः प्रसवं याति तदाऽभूत् पीडिता मही । कठोरगर्भा सा देवी गर्भभारं न चाशकत् । यदा वोढुं, तदा देवं माधवं शरणं गता शरण्यं शरणं गत्वा माधवं जगता पतिम् । प्रणम्य शिरसा देवी वाक्यमेतदुवाच ह” । स्तवप्रसन्नमाधवो- [] क्तिधराप्रत्युक्तिभ्यां त्रेतायुगार्द्धे तदुत्पत्तिकथा- “इति स्तुतो हृषीकेशोजगद्धात्र्या तदा हरिः । प्रा- दुर्भूतस्तदा प्राह धरित्रीं दीनमानसाम् । श्रीभगवानुवाच । कथं दीनमना देवि! धरित्रि! परिदेवसे । तव वा किङ्कृ- ता पीडा वेत्तुमिच्छामि तदहम् । मुखन्ते परिशुष्क- न्तु शरीरं कान्तिवर्जितम् । आकुलं नयनद्वन्द्वं भ्रूवि- भ्रमविवर्जितम् । ईदृशन्तव रूपन्तु दृष्टपूर्व्वं कदा च न । रूपस्य तु विपर्य्यासे दुःखे वीजञ्च भाषय । एतच्छुत्वा वच- स्तस्य माधवस्य जगत्पतेः । विनयावनता देवी पृथ्वी प्राह- सगद्गदम् । पृथिव्युवाच । गर्भभारं न संवीढुं माधवा- हं क्षमाऽधुना । भृशं नित्यं विषीदामि तस्मात्त्वं त्रातु- मर्हसि । त्वया वराहरूपेण मलिनी (ऋतुमती) कामि- ता पुरा । तेन कामेन कुक्षौ मे स्मयं गर्भोऽयमास्थितः । काले प्राप्ते स गर्भोऽयं न प्रच्यवति माधव! । कठोरगर्भा तेनाहं पीडितास्मि दिनेदिने । यदि न त्रासि मां देव! गर्भदुःखाज्जगतपते! । न चिरादेव यास्यामि मृत्योर्व- शमसंशयम् । कदापि नेदृशोगर्भो धृतोमाधव! वै पुरा । योऽचलां चालयति मां सरसीमिव कुञ्जरः । एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः । आह्लादयन् प्रत्यु- वाच हरिस्तप्तां लतामिव । श्रीमगवानुवाच । न धरे ते महादुःखं चिरस्थायि भविष्यति । श्रुणु येन प्रकारेण चानुभूतमिदं त्वया । मलिन्या सह सङ्गेन यो गर्भः संवृतस्त्वया । सोऽभूदसुरसत्वस्तु वृष्टेः (वराहस्य) पुत्रस्तु दारुणः । ज्ञात्वा तस्य च वृत्तान्तंगर्भस्य द्रुहिणादयः । देवीभिः शक्तिभिः सुभ्रूस्तव कुक्षौ सुतं खरम् । सर्गादौ- यदि जायेत भवत्यास्तादृशः सुतः । भ्रंशयेत् सकलाल्लोँकां स्त्रीनिमान् ससुरासुरान् । अतस्तस्य बलं वीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः । प्राक्सृष्टिकाले ते गर्भं तदाऽधुर्जगतां कृते । अष्टाविंशतिमे प्राप्ते आदिसर्गाच्चतुर्युगे । त्रेता- युगस्य मध्ये तु सुतं त्वंजनयिष्यसि । यावत् सत्ययुगं याति त्रेतार्द्धञ्च वरानने! । तावद्वह महागर्भं दत्तः कालोमया तव । न यावज्जायते धात्रि! गर्भस्ते ह्यति- दारुणः । तावद्गर्मवती दुःखं न त्वं प्रास्यसि भाविनि!” “ये च प्रलम्बखरदर्दुररिष्टनुमिमल्लेभकंसयवनाः कुजपौ- ण्ड्रकाद्याः” भाग० २७, ३६ । “तत्राहृतास्ता नरदेवक- न्याः कुजेन दृष्ट्वा हरिमार्त्तबन्धुम्” भाग० ३, ३, ८ श्लो० । “कुजशुक्रबुधेन्द्दर्कसौम्यशुक्रावनीभुवाम् “ज्यो०” मङ्ग- लग्रहस्य चारादिकमङ्गारकशब्दे ७९ पृ० उक्तम् । कल्पे
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कुज उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) उ कोजित्वा कुक्त्वा । स्तेयं चौर्य्यम् । इति दुर्गादासः ॥
कुज, इ अव्यक्तशब्दे । इति चन्द्रः । (भ्वां-परं-अकं- सेट्-इदित् ।) कुञ्जति कुञ्जरः । इति दुर्गादासः ॥
कुजः, पुं, (कोः पृथिव्याः जायते । कु + जन् + डः ।) भङ्गलग्रहः । (यथा, मङ्गलग्रहस्तुतौ । “अङ्गारकः कुजो भौमः” इति ।) नरकासुरः । (यथा, -- “तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्त्तवन्धुम्” ॥ श्रीमद्भागवते ३ । ३ । ८ ॥) वृक्षः । इति हेमचन्द्रः ॥ कुजम्भलः, त्रि, (कोः पृथिव्याः कौ वा जम्भलः मृत्तिकादिखननेन सन्धिचौरः ।) चौरविशेषः । इति हारावली । सिँदेल चोर इति भाषा ॥
📄 मूल मुद्रित पृष्ठ (2-135-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें