कुथ इ क्लेशे । वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं-- अकं--सकञ्च--सेट् इदित् ।) पञ्चमस्वरी । इ कर्मणि कुन्थ्यते । क्लेश इह दुःखानुभवः । शीतार्त्तश्च न कुन्थतीति हलायुधः । इति दुर्गादासः ॥
कुथ य पूतित्वे । इति कविकल्पद्रुमः ॥ (दिवां-परं- अकं-सेट् ।) पूतित्वं दुर्गन्धीभावः । य, कुथ्यति मीनो दुर्गन्धः स्यादित्थर्थः । चुकोथ । इति दुर्गा- दासः ॥
कुथः, पुं स्त्री, (कुन्थति अशोभां क्लेशं वा । कुथ इ हिंसायां अच् । आगमविधेरनित्यत्वात् न नुमा- गमः ।) गजपृष्टस्थितचित्रकम्बलम् । हातिर पिठेर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २ आस्तरणम् ३ वर्णः ४ परिस्तोमः ५ । इत्थमरः । २ । ८ । ४२ ॥ प्रवेणिः ६ परिष्टोमः ७ कुथा ८ कुथम् ९ । इति तट्टीका ॥ वोलः १० आस्तरः [] ११ । इति शब्दरत्नावली ॥ (यथा शब्दर्थचिन्तामणौ । “कुथा कन्या समाख्याता कुथः स्यात् करिकम्बलम् । कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः” ॥ यथा महाभारते २ । ५१ । ३६ । “शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” ॥)
कुथः, पुं, (कुथ + अच् ।) कुशतृणम् । इत्यमरः । २ । ४ । १६६ ॥ (यथा हेः रामायणे । २ । ३० । १४ । “शाद्बलेषु यदा शिश्ये वनान्ते वनगोचरा । कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः” ॥)
📄 मूल मुद्रित पृष्ठ (2-141-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।