गर्ज्ज ऊर्ज्जाहेतुकशब्दे भ्वा० षर० अक० सेट् । गर्ज्जति । अगर्जीत् जगर्ज । गर्जितम् । गर्जनं गर्जः । गर्जन् । गर्ज्जा । “गर्ज गर्जक्षणं मूढेति” देवीमाहात्म्यम् । “शरदि गर्जति, न वर्षति, वर्षति वर्षासु निःस्वनो मेघः” उद्भटः । “कुम्भकर्ण स्ततोऽगर्जीत्” “गर्ज्जन् हरिः साम्भसि शैलकुञ्जे” भट्टिः । “योधानां चैव गर्जताम्” भा० [] भी० ६७८ श्लो० । “नाम संश्रावयामास जगर्ज च ननाद च” रामा० सु० ८९ । शीलार्थे चानश् । गर्जमानः । “तथात्र गर्जमाने तु मेघदुन्दुभिनिस्वनम्” भा० आ० २० अ० । “सन्ध्ययां गर्जिते मेघे शास्त्रचिन्तां करोति यः । चत्वारि तस्य नश्यन्ति आयुर्विद्यायशो- बलम्” स्मृतिः । “माधादिचतुरो मासान् गर्जमात्रं विवर्जयेत्” स्मृतिः । अनु + गर्गनप्रतिरूपगर्जने । “अनुगर्जितसन्दिग्धाः करणै- र्मुरजस्वना” कुमा० । अनुरूपगर्जने च । “सोऽनुगर्जन् धनुष्पाणिः” भा० द्रो० ४० अ० । अभि + अभिलक्ष्य गर्जने सक० । “दुःशासनस्तामभिगर्ज- मानः” भा० स० ६५ अ० । ताच्छील्ये चानश् । “शार्दूलाविव चानन्योन्यमामिषार्थेऽभ्यगर्जताम्” भा० द्रो० १३३ अ० । सम्य- ग्गर्जने अक० । “शूराणाञ्चाभिगर्जताम्” भा० क० २१ अ० प्रति + प्रतिरूपगर्जने अक० । “वलवच्चापि संक्रुद्धावन्योन्यं प्रतिगर्जताम्” भा० वि० २२ अ० । आर्षः पदव्यत्ययः । “प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः” भा० उ० ५० अ० “सुहृदयोहृदयः प्रतिगर्जताम्” रघुः । प्रतिलक्ष्यीकृत्य गर्जने सक० । “ऋषीणां कदनं कृत्वा नामपि प्रतिगर्जति” हरिवं ४९ अ० ।
गर्ज्ज रवे चुरा० उभ० अक० सेट् । गर्ज्जयति ते अजग- र्जत्--त! गर्जयां बभूब आस--चकार चक्रे । गर्जयत् गर्जयमानः ।
गर्ज पु० गर्ज--भावे घञ् । १ हस्तिशब्दे २ मेघादिशब्दे च गुरुमत्त्वात् सेट्क्तत्वाच्च भावे अ स्त्रियाम् । गर्जा । ३ मेघारिध्वनौ स्त्री “गण्डूषगर्जजागरभुजकीलज्वाल- वर्त्तकव्रीडाः । उत्कण्ठसठबराटकरभसाः स्त्रीत्वे तु टाबन्ताः” त्रिका० ।
📄 मूल मुद्रित पृष्ठ (2546-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।