🕉️ 19 November 2026, Thursday · 11:06:03 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धनद
dhanada
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
धनद १ वि॰ [सं॰] धन देनेवाला । दाता ।
धनद २ संज्ञा पुं॰
१. कुबेर । उ॰—ध्याय चुको धनद कमाय चुको कामतरु पाय चुको पारस रिझाय चुको राम को ।—पद्माकर ग्रं॰, पृ॰ ३१० ।
२. हिज्जल वृक्ष । समुद्रफल ।
३. धनपति वायु ।
४. अग्नि ।
५. चित्रकवृक्ष । चीता ।
६. हिमालय या उत्तराखंड के एक देश का नाम । (महाभारत) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धन—द mf(आ)n. ‘w˚-giving’, liberal, Kām.
धन—द m. Barringtonia Acutangula, L.
N. of Kubera, MBh.; R. &c.
a Guhyaka, L.
N. of a servant of Padma-pāṇi, W.
of sev. men, Siṃhās.
of a monkey, RāmatUp.
of a mountain, MBh.
धन—द n. a kind of house, Gal.
📄 मूल मुद्रित पृष्ठ (508,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धनद पु० धनं दयते देङ--पालने धनं ददाति दा--दाने वा क । १ कुवेरे अमरः । २ धनदातरि त्रि० मेदि० ३ देवीभेदे स्त्री ण्वुल् धनदायिकाऽपि तत्र । “ध्यायेत् कल्पतरोर्मूले देवीं तां धनदायिकाम्” । तन्त्रसारे तन्मन्त्रध्यानादिकं दृश्यम् । कुवेरश्च पुलस्त्यपुत्रस्य विश्रवसः पुत्रः तत्कथा रामा० उ० ३ अ० उक्ता । “अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः । सत्यवान् शी- लवान् दान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्व संसक्तो नित्यं धर्मपरायणः । ज्ञात्वा तस्य तु तद्- वृत्तं भारद्वाजो महामुनिः । ददा विश्रवसे भार्य्यां स्वसुतां देववर्णिनीम् । प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्य्यसम्पन्नमपत्यं परमाद्भुतम् । जनयामास धर्मज्ञः सर्वैर्ब्रह्मर्गुणैर्वृतम् । तस्मिन् जाते तु संहृष्टः संबभूव पितामहः । दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम चास्याकरोत् प्रीतः सार्धं देवर्षि- भिस्तदा । यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्विश्रवणो नाम भविष्यत्येष विश्रुतः” “स तु वैश्रव- णस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुती महा- तेजा यथाऽनलः । तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महा- त्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः । स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः । पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशो मारुताहारो निराहार- स्तथैव च । एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह । गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टोऽस्मि ते वत्स! कर्मणानेन सुव्रत! । वरं वृणीष्व भद्रन्ते वरा- र्हस्त्वं महामते ॥ अथाब्रवीद्बैश्रवणः पितामहसुप- स्थितम् । भगवन्! लोकपालत्वमिच्छेयं लोकरक्षणम् । अथाब्रवीद्वैश्रवणं वाढमित्येव हृष्टवत् । अहं वै लोक पालानां चतुर्थं स्रष्टुमुद्यतः । यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् । तद्गच्छ वत्स! धर्मज्ञ! निधीश- त्वमवाप्नुहि । शक्राम्बुपयमानां च चतुर्थस्त्वं मवि- ष्यसि । एतच्च पुष्पकं नाम विमानं सूर्य्यसन्निभम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज । स्वस्ति तेऽस्तु गमिष्यामः सर्वं एव यथागतम् । कृतकृत्यावयं तात! दत्त्वा तव वरद्वयम् । इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं [] त्रिदशैः सह । गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् । धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । भगवन्! लब्धवानस्मि वरमिष्टं पितामहात् । निवासनं न मे देवो विदधे स प्रजापतिः । तं पश्य भगवन्! कञ्चिन्निवासं साधु मे प्रमो! । न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः । वचनं प्राह धर्मज्ञ! श्रूयतामिति सत्तम! । दक्षिणस्यो- दधेस्तीरे त्रिकूटो नाम पर्वतः । तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा । राक्षसानां निवासार्थं यथेन्द्रस्यामरा- वती । तत्र त्वं वस भद्रन्ते लङ्कायां नात्र संशयः” । तस्य धनाध्यक्षत्वात् धनदत्वम् । “यथा साधारणीभूतं नामास्य ध्रनदस्य च” रघुः । ४ धनञ्जयरूपे वायौ पु० धन- पतिशब्दे दृश्यम् । ५ वह्नौ ६ चित्रकवृक्षे च पु० ।
📄 मूल मुद्रित पृष्ठ (3838-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धनदः, पुं, (धनं दयते पालयतीति । दे ङ पालने + “आतोऽतुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) कुबेरः । इत्यमरः । १ । १ । ७२ ॥ (यथा, देवीभागवते । ५ । ३ । ४० । “त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकञ्चैव चन्द्रसूर्य्यौ विजित्य च ॥” ब्रह्मा अस्य तपसा सन्तुष्ट एनं धनेशं चकार । यथा, अध्यात्मरामायणे । ७ । १ । ३८ । “ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् । मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥”) हिज्जलवृक्षः । इति राजनिर्घण्टः ॥ (धनदः [] आश्रयित्वेनास्त्यस्येति अच् । हिमवत एक- देशः । यथा, महाभारते । १३ । १९ । १६ । “धनदं समतिक्रम्य हिमवन्तञ्च पर्व्वतम् ॥” धनं ददातीति । दा + कः ।) दातरि, त्रि । इति मेदिनी । दे, ३२ ॥ (यथा, कामन्दकीय- नीतिसारे । ३ । २३ । “उद्वेजयति भूतानिक्रूरवाक् धनदोऽपि सन् ॥”)
📄 मूल मुद्रित पृष्ठ (2-777-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "धनद" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें