🕉️ 19 November 2026, Thursday · 12:12:24 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नृप
nṛpa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नृप संज्ञा पुं॰ [सं॰] नरपति । राजा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नृ—प See p. 568.col. 2.
नृ-प m. (√ 3. पा) protector of men, prince, king, sovereign, ŚāṅkhŚr.; Mn.; MBh. &c.
(in music) a kind of measure
N. of the numeral 16 Gaṇit.
📄 मूल मुद्रित पृष्ठ (567,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नृप, नृपति, नृपाल &c. See under नृ.
📄 मूल मुद्रित पृष्ठ (0648-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नृप पु० नॄन् पाति रक्षति पा--क । “चतुर्योजनपर्यन्तेष्वधि- कारी नृपो भवेत्” इत्युक्ते १ राजविशेषे २ राजमात्रे च अमरः । “नृपादिलक्षणं यथा “चतुर्योजनपर्य्यन्त- मधिकारो नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तस्माद्दशगुणो राजा राजेन्द्रः परिकी- र्त्तितः” ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अ० । तत्- प्रशंसा यथा “अपुत्त्रस्य नृपः पुत्रो निर्धनस्य धनं नृपः । अमातुर्जननी राजा अतातस्य पिता नृपः । अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृ- त्यस्य नृपो भृत्यो नृप एत नृणां सखा । सर्वदेवमयो राजा तस्मात्त्वामर्थये नृप!” कालिकापु० ५० अ० । “व्यव- हारान्नृपः पश्येद्विद्वद्भिः ब्राह्मणैः सह” याज्ञ० “नृपेण षाणिग्रहणस्पृहेति” नैष० । २ षोडशसंख्यायाम् भा- रते षोडशानामेव राज्ञां माहात्म्यविशेषकथनात् नृपशब्दस्य तत्सङ्ख्यावाचित्वम् षोडश नृपाश्च भा० द्रो० ५५ अध्यायादौ षोडशराजिकपर्वण्युक्ताः तत्रैव दृश्याः । “भुवि नृपमितहस्तेष्वङ्गलग्नं तदग्रम्” लीला० । राज्ये एकनृपकरणस्यावश्यकता तत्र विशेषश्च औशनस- नीतिपरिशिष्टे १ अ० उक्तो यथा “सदैकनायकं राज्यं कुर्य्यान्न बहुनायकम् । नानाथकं क्वचिदपि कर्त्तुरोप्सितमूतये । राजकुले तु वहवः पुरुषा यदि सन्ति हि । तेषु ज्येष्ठो भवेद्राजा शेषास्तत्- कार्यसाधकाः । गरीयांसोवराः सर्वे सहायेभ्यो बिवृ- द्धये । ज्येष्ठोऽपि बधिरः कुष्ठी मूढोऽन्धः षण्ड एव यः । स राज्यार्हो भवेन्नैव भ्राता तत्सुत एव वा । न कनिष्ठोऽपि, ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यभाक् । दायादानामैकमत्यं राज्ञः श्रेवस्करं परम् । पृथग्- [] भावो विनाशाय राज्यस्य च कुलस्य च । अतः स्वभोग सदृशान् दायादान् कारयेन्नृपः । अव्याहताज्ञः संतुष्ये- च्छत्रसिंहासनैरपि । राज्यविभजनाच्छ्रेयो न भूपानां भवेत् खलु । अल्पीकृतं विभागेन राज्यं शत्रुर्जिघृक्षति । राज्यतुर्य्यांशदानेन स्थापयेत्तान् समन्ततः । चतुर्दिक्ष्वथ या देशाधिषान् कुर्य्यात् सदा नृपः । गोगजाश्वोष्ट्रको- षाणामाधिपत्ये नियोजयेत् । सेनाधिकारे संयोज्या नान्धवाः श्यालकादयः । स्वदोषदर्शकाः कार्य्या गुरवः सुहृदश्च ये । वस्त्रालङ्कारपात्राणां स्त्रियो योज्यास्तु द- र्शने । स्वयं सर्वं च विमृशेत् पर्य्यायेण च दुर्नयेत् । मन्त्रयेन्मन्त्रिभिः सार्द्धं भावि कृत्यं तु निर्जने । अन्त- र्वेश्मनि रात्रौ वा दिवा वाऽन्यविशोधिते । सुहृद्भिर्भ्रा- तृभिः सार्द्धं सभायां पुत्रबान्धवैः । राजकृत्यं सैन्यपैश्च सभ्याद्यैश्चिन्तयेन्नृपः” ।
📄 मूल मुद्रित पृष्ठ (4139-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नृपः, पुं, (नॄन् नरान् पाति रक्षतीति । नृ + पा रक्षणे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) नरपतिः । इत्यमरः । २ । ८ । १ । तस्य लक्षणं यथा, -- “चतुर्योजनपर्य्यन्तमधिकारी नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अः ॥ तत्प्रमाणं यथा, -- “अपुत्त्रस्य नृपः पुत्त्रो निर्धनस्य धनं नृपः । अमातुर्जननी राजा अतातस्य पिता नृपः ॥ अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥ सर्व्वदेवमयो राजा तस्मात्त्वामर्थये नृप ! ॥” इति कालिकापुराणे ५० अध्यायः ॥ नृपदर्शनदिनं यथा । तत्र तिथयः शुभाः । वाराः शनिमङ्गलभिन्नाः । नक्षत्राणि उत्तर- फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी- हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः । लग्नानि मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ- कानि । तत्र चन्द्रः शोभनः । इति ज्योतिषम् ॥
📄 मूल मुद्रित पृष्ठ (2-919-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "नृप" आता है (11)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें