पिप्पली, स्त्री, (पिपर्त्तीति + पॄ + बाहुलकात् अलच् । पृषोदरादित्वात् साधुः । गौरादित्वात् ङीष् ।) वृक्षविशेषः । पिँपुल इति भाषा ॥ तत्पर्य्यायः । कृष्णा २ उपकुल्या ३ वैदेही ४ मागधी ५ चपला ६ कणा ७ उषणा ८ शौण्डी ९ कोला १० । इत्यमरः । २ । ४ । ९७ ॥ ऊषणा ११ पिप्पलिः १२ । इति भरतः ॥ कृकला १३ कटुबीजा १४ कोरङ्गी १५ तिक्त- तण्डुला १६ श्यामा १७ दन्तफला १८ मगघो- द्भवा १९ । अस्या गुणाः । ज्वरनाशित्वम् । वृष्यत्वम् । स्निग्धत्वम् । उष्णत्वम् । कटुत्वम् । तिक्तत्वम् । दीपनत्वम् । मारुतश्वासकासश्लेष्म- क्षयापहत्वञ्च । इति राजनिर्घण्टः ॥ स्वादु- पाकत्वम् । रसायनत्वम् । लघुत्वम् । पित्तल- त्वम् । रेचनत्वम् । कुष्ठप्रमेहगुल्मार्शःप्लीह- शूलामनाशित्वञ्च ॥ आर्द्रायास्तस्या गुणाः । कफप्रदत्वम् । स्निग्धत्वम् । शीतलत्वम् । मधुर- त्वम् । गुरुत्वम् । पित्तप्रशमनत्वञ्च । राजवल्लभे तु कफापहत्वम् । मधुयुक्तायास्तस्या गुणाः । मेदःकफश्वासकासज्वरहरत्वम् । वृष्यत्वम् । मेधाग्निवर्द्धनत्वञ्च । गुडपिप्पलीगुणाः । जीर्ण- ज्वरे अग्निमान्द्ये च शस्तत्वम् । कासाजीर्णा- रुचिश्वासहृत्पाण्डुकृमिनाशित्वञ्च । द्विगुणात् पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः । इति भावप्रकाशः ॥ (ऋष्यवन्तपर्व्वतान्निःसृतो नदी- विशेषः । यथा, मांत्स्ये । ११३ । २५ । “तमसा पिप्पली श्येनी तथा चित्रोत्पलापि च ॥”)
📄 मूल मुद्रित पृष्ठ (3-152-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।