बध पु० हन--घञ् । बधादेशः । हनने प्राणवियोगसाधने व्यापारे अमरः । बधपदार्थविशेषं बधिभेदश्च प्रा० वि० उक्तो यथा “अथ बधो निरूप्यते । ननु कोऽयं बधः किं बधित्वं कति विधं च तत्,? उच्यतेप्राणवियोगफलकव्यापारो बधः तन्नि- ष्पादकत्वञ्च साक्षात्परम्परोदासीनं स्मृतिकारपरिगणितं बधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधं स्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहको निमिती चेति यथाह आपस्तम्बः “प्रयोजयिता अनुमन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आर भते तस्मिन् फले विशेषः” । अनुग्राहकमाह याज्ञ- वल्क्यः “चरेद्व्रतमहत्वापि थातार्थञ्चेत् समागतः” । तथा मनुः “बहूनामेककार्थ्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातकस्तर सर्वे ते घातकाः स्मृताः” । भविष्ये “यद्येकं बहवी विप्रा घ्नन्ति विप्रमनागसम् । तदैषां निष्कृतिं बच्मि शृणुष्वेकमना गुहु! । तेषां यस्य प्रहा- रेण स विप्रो निधनं गतः । सरस्वतीं प्रतिस्रोतः सञ्च- रेत् पापशुद्धये” । स च द्विविधः । एको बध्यप्रति- रोघकः अन्यः स्वल्पप्रहर्त्ता । निमित्तिनमाह विष्णुः “अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः । यमुद्दिश्य त्यजेत् प्रार्णास्तमाहुर्ब्रह्मथातकम्” । अत्र नरान्तर- व्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता, यः कर्त्तारं कारयति स प्रयोजकः सोऽपि द्विविधः । एकः स्वतो- ऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति अपरः स्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहमति । [] अनुमतिदाता अनुमन्ता । अनुमतिश्च द्विविधा । एका यद्विरोधाद्धननं न सम्भवति तस्य विरोधिनो मया नि- रोधः कर्त्तव्य इति प्रयुक्तिः । अपरा एनं हन्मीति वचने शक्तस्याप्रतिषेध एव” । हिंसायाः पापाद्यनिष्टजनक- त्वेऽपि बैवहिसाया इष्टफदृजनकत्वात् नानिष्टजन- कता “यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । अतस्त्वां घातयिष्यामि तस्पाद्यज्ञे बधोऽबधः” ति० त० । उक्तेः मनुनापि “या वेदविहिता सा नियतास्मिंश्चराचरे । अहिंसामेव तां बिद्यात् वेदात् धर्मो हि निर्बवौ” उक्तेश्च । अबधः अहिंसा च तज्जन्यपापाजनकत्वेन तद्विरो- धीत्यर्थः । वहूतां रक्षणार्थमेकस्य वधेऽपि पुण्यजनकत्व- मुक्तम् “एकस्य यत्र निधने प्रवृत्ते इष्टकारिणः । बहूनां भवति क्षेमं तस्य पुण्यप्रदो बधः । रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । आत्मानं घातयेद्यस्तु तस्य पुण्य- प्रदो बधः” कालिका० २० अ० । ब्रह्महन्तृबधेऽपि न राज्ञो दोषः प्रा० वि० स्थितः “तथा नाततायिबधे दोषो हन्तुर्र्मवति कश्चन” स्मृतेः आततायिबधेऽपि नानिष्टफलमिति यथायथं बोध्यम् ।
बध संयमने चु० उ० सक० सेट् । बाधयति--ते अबीबधत्--त ।
बध निन्दायां बन्धने च भ्वादि० आत्म० सक० सेट् । बीभत्सते अवीभत्सिष्ट । निन्दनेऽर्थे एव स्वार्थे सन् बन्धने तु न तेन तत्र बधते अबधिष्ट इत्येव ।
📄 मूल मुद्रित पृष्ठ (4558-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।