योगी, [न्] पुं, (योगः अस्त्यस्येति । योग + इनिः । यद्बा, युज समाधौ । युजिर् योगे वा + “संपृचानुरुधोत ।” ३ । २ । १४२ । इति घिनुण् ।) [] योगयुक्तः । तस्य लक्षणादि यथा, -- “स्वर्णे लोष्टे गृहेऽरण्ये सुस्निग्धे चन्दने तथा । समता भावना यस्य स योगी परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥ अपि च । “आत्मौपम्येन सर्व्वत्र सभं पश्यति योऽर्ज्जुन ! । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥” इति श्रीभगवद्गीतायाम् ७ अध्यायः ॥ अन्यच्च । ऋषय ऊचुः । “भगवन् ! देवतारिघ्न ! हिरण्यादिनिसूदन ! । चत्वारो ह्याश्रमाः प्रोक्ता योगी नाम क उच्यते ॥ सर्व्वकर्म्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥ सर्व्वेषामाश्रमाणान्तु द्बैविध्यं श्रुतिदर्शितम् । ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ॥ योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ उदासीनसाधकश्च गृहस्थो द्विविधो भवेत् । ऋणानि त्रीण्युपाहृत्य त्यक्त्वा भार्य्याधनादिकम् ॥ एकाकी यस्तु विचरेदुदासीनः स मोक्षिकः । कुटुम्बभरणायत्तः साधकोऽसौ गृही भवेत् ॥ तपस्तप्यति योऽन्येन यजेद्देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सन्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ योगाभ्यासरतो नित्यमारुरुक्षुर्ज्जितेन्द्रियः । ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते परमेष्ठिकः ॥ यश्चात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यग्दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥ ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनः परे । कर्म्मसन्न्यासिनः केचिद्विविधाः परमेष्ठिकाः ॥ योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च । तृतीयोऽन्याश्रमी प्रोक्तो योगमुत्तममास्थितः ॥” इति कौर्म्मे २ अध्यायः ॥ (तेषां स्त्रीसङ्गनिषेधो यथा, -- “यदि सङ्गं करोत्येव बिन्दुस्तस्य विनश्यति । आयुःक्षयो बिन्दुहीनादसामर्थ्यञ्च जायते ॥ तस्मात् स्त्रीणां सङ्गवर्ज्यं कुर्य्यादभ्यासमाद- रात् । योगिनोऽङ्गस्य सिद्धिः स्यात् सततं बिन्दुधार- णात् ॥” इति दत्तात्रेयसंहिता ॥ तेषां पथ्यं यथा, हठयोगप्रदीपिकायाम् । “गोधूमशालियवषष्टिकशोभनान्नं क्षीराद्यखण्डनवनीतसितामधूनि । शूण्ठीकपोलकफलादिकपञ्चशाकं मुद्गादिदिव्यमुदकञ्च यमीन्द्रपथ्यम् ॥” तेषामपथ्यं यथा, तत्रैव । “कट्वम्लतिक्तलवणोष्णहरीतशाव सौवीरतैलतिलसर्षपमत्स्यमद्यम् । [] आजादिमांसदधितक्रकुलत्थकोल- पिन्याकहिङ्गुलसुनाद्यमपथ्यमाहुः ॥”)
📄 मूल मुद्रित पृष्ठ (4-061-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।