व(ब)द, इ ङ नुत्यभिवादयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) अभिवादो नम- स्कारः । इ, वन्द्यते । ङ, वन्दते गुरुं लोकः । नमस्करोति स्तौति वा इत्यर्थः । इति दुर्गादासः ॥
व(ब)द, ऐ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ऐ, उद्यात् । इति दुर्गा- दासः ॥ (“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु- नासिको वकारः सँव्वत् यस्तु मन्यते नायं संप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्य इत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपि सम्बदिति वर्णदेशना ।” इति मनोरमा ॥)
वद, क वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-आत्म०-इत्येके-सेट् ।) क, वादयति । सन्देशो वचनविशेषः । अयमात्मने- पदीत्येके । इति दुर्गादासः ॥
वद, ञ ङ वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-आत्म०-इत्येके-सक०-सेट् ।) ञ, वदति वदते । ङ, वदते । अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥
वदः, त्रि, (वदति वक्तीति । वद् + पचाद्यच् ।) वक्ता । इत्यमरः । ३ । १ । ३५ ॥
📄 मूल मुद्रित पृष्ठ (4-259-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।