वरिष्ठं, क्ली, (अतिशयेन वरम् । वर + इष्ठन् ।) ताम्रम् । इत्यमरः । ३ । २ । १११ ॥ (यथा, -- “रक्तं वरिष्टं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥” इति वैद्यकरत्नमालायाम् ॥) मरिचम् । इति मेदिनी । ठे, १५ ॥
वरिष्ठः, त्रि, (अयमेषामतिशयेन वर उरुर्वा अतिशायन इष्ठन् । प्रियस्थिरेति वरादेशः ।) इति व्याकरणम् ॥ बरतमः । (यथा, भागवते । १ । १० । १ । “हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्म्मभृतां वरिष्ठः ॥”) उरुतमः । इति मेदिनी । ठे, १५ ॥ (यथा, ऋग्वेदे । ४ । ५६ । १ । “यत्सीं वरिष्ठे बृहती विमिण्वन्रु वद्धोक्षापप्रथानेभिरेवैः ॥”) वत्सः । इत्यजयः ॥
वरिष्ठः, पुं, (वर + इष्ठन् ।) तित्तिरिपक्षी । इति मेदिनी । ठे, १५ ॥ नारङ्गवृक्षः । इति राज- निर्घण्टः ॥ (चाक्षुषमनुपुत्त्रः । यथा, महा- भारते । १३ । १८ । २० । “वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ॥” धर्म्मसावर्णिमन्वन्तरस्य ऋषिविशेषः । यथा, मार्कण्डेये । ९४ । १९ । “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः । निश्चरश्चानघश्चैव रिष्ठिश्चान्यो महामुनिः । सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥” दैत्यविशेषः । तथा, हरिवशे । २३२ । १३ । “वरिष्ठश्च गविष्ठश्च भूतलोन्मथनो विभुः । सुप्रसादः किरीटी च सूचीवक्त्वो महासुरः ॥”)
📄 मूल मुद्रित पृष्ठ (4-274-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।