अब्भ्र(भ्र)क पु० अब्भ्र(भ्र)मिव कायति राजते कै--क । [] (आम) घातुभेदे । मेघतुल्याकरत्वात्तस्य तथात्वम् ।
अभ्रक न० पु० अभ्र--क्वुन् । क्वचित् पुंस्त्वमप्यस्य । (आव)- धातुभेदे एतच्च गौरीरजोजातं यथोक्तम् रस्वेश्वरदर्शने शिववाक्यम् । “अभ्रकस्तव वीजन्तु भम वीजन्तु पारदः अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्” । जारिताभ्रस्यैव पारदमेलनद्वारा मृत्युनाशकत्वमतस्तज्जारणविधिर्दर्शितः श्चक्रदत्ते । “कृष्णाभ्रकमनेकवपुर्व्वज्राख्यञ्चैकपात्रकं कृत्वा । काष्ठमयोदूखलके चूर्ण्णं मुषलेन कुर्व्वीत ॥ भूयो दृशदि च पिष्टं वासःसूक्ष्मावकाशतलगलितम् । मण्डूकपर्ण्णिकायाः प्रचुररसे स्थापयेत्त्रिदिनम् ॥ उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्थम् । अक्षोदात्य- न्ताम्लस्वच्छजलेन प्रयत्नेन । मण्डूकपर्ण्णिर्कायाः पूर्व्वं सुंरसेनालोडनं कुर्य्यात् । स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः ॥ ताडादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्माग्नौ । तावद्दहेन्न यावल्लीनोऽग्निर्दृश्यते सुचिरम् ॥ निर्वापयेच्च दुग्धेन दुग्धं प्रक्षाल्य वारिणा तदनु । पिष्ट्वा घृष्ट्वा वस्त्रे चूर्ण्णं निश्चन्द्रकं कुर्य्यात्” इति ।
📄 मूल मुद्रित पृष्ठ (0273-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।