कम वाञ्छायां भ्वा० आ० सक० सेट् । अतः स्वार्थे णिङ् आ- र्द्धधातुके वा । कामयते कामयीत कामयताम् अकामयत । अचीकमत । णिङभावपक्षेऽपि चञ् अचकमत । कामयाम् बभूव आस चके चकमे । कामयिता--कमिता कामयिषीष्ट- कमिषोष्ट । कामयिष्यते--कमिष्यते । कामनीयः कमनीयः काम्यः । कामयितव्यः--कमितव्यः । कामी । कामयिता- कमिता कानितः कान्तः । कान्तिः । कर्त्तरि अच् कमः कर्म- ण्युपपदे अण् । स्वर्गकामः । उदित् कामयित्वा कामत्वा का- न्त्वा । कामुकः कम्रः कमनः कामयमानः नि० काम- यानः । काम्यते काम्यमानः । घञ् कामः मुच का- [] मना । “नरपतिश्चकमे मृगयारतिम्” “निष्क्रष्टेमर्थं चकमे कुवेरात्” “भीमकान्तैर्नृपगुणैः” “नवं वयः कान्तमिदं वपुश्च” रघुः । “सोऽकामत बहु स्यां प्रजायेय” श्रुतिः “रमणीकमनीयकपीलतले” सा० द० टी० । “स चेत् कामयते दातुं तव मामरिसूदन!” भा० आ० १७२ । “सर्वान् कामयते यस्मात्” कत्याशब्दे उक्तम् । “प्रीत्या युक्तः का- मितं सर्वशस्ते” भा० आ० ५८ “कामयाञ्चक्रिरे कान्ता- स्ततस्तुष्टानिशाचराः” “अकम्पनस्ततो योद्धु चकमे रावणाज्ञया” भाट्टः । आर्वे क्वचिन् पर० । “एवं रूप नलं यो वै कामयेच्छपितुं कले ।” भा० व० ५८ अ० । “न च सीता दशग्रीवं मनसापि हि कामयेत्” “अकामोऽपि बलात् कामं दर्शनादेव कामयेत्” रामा० । अनु + कामनानुरूपकामनायाम् । अनुकामयते । अभि + आप्रिमुख्येम कामनायाम् । “दासीं कन्यासहस्रेण शर्म्मिष्ठामभिकामये” भा० आ० १८ । नि + निःशेषकामनायाम् । “या तस्य ते पादसरोरुहार्हणं नि- कामयेत् साऽखिलकामलम्पटा” भाग० ५ स्क० १८, २२ । अतिशये च “निकामतप्ता द्विधेन बह्निना” कुमा० प्र + प्रकर्षेण कामनायां अतिशये । प्रकामः ।
कम वाञ्छायां चुरा० आ० सक० सेट् उदित् कविकल्पद्रुमः । णिङन्तकमवत् सर्वंम् । किन्तु तत्र उदित्प्रयोजनं चिन्त्यम ।
📄 मूल मुद्रित पृष्ठ (1680-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।