काश दीप्तौ भ्वा० आत्म० अक० सेट् । काशते अकाशिष्ट, काशाम्बभूव काशामास काशाञ्चक्रे चकाशे । णिच् अचकाशत्--त । ऋदित्त्वात् चङि नोपधाह्रस्यः । “काली कपालाभरणा चकाशे” “तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभा- मण्डलया चकाशे” कुमा० “नंनम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः” भट्टिः । काशी काशकः काशितः काशमानः काशः काशनं काशितुम् काशित्वा प्रकाश्य । यङ् लुक् चाकाशीति । वेदे ह्रस्वः चाकशीति अनु + अनुरूपदीप्तौ अनुकाशते अभि + सर्व्वतः प्रकाशे अभिकाशते “अन्योअनश्नन्नभिचाक- शीति” शत० व्रा० १४, ७, १, १२, आभिमुख्येन दर्शने सक० । “घृतस्य धारा अभिचाकशीमि” ऋ० ४, ५८, ५, ९, “व्यञ्ज्यमानाभिचाकशीमि” ९, “आभिचाकशीमि अभि पश्यामि” भा० अव + अवकाशे स्ववासयोग्यताप्राप्तौ “उभयतो मांसैः संछन्नं नावकाशते” शत०८, ७, ४, २०, यदमुत्राग्रेऽधिश्रयति पत्नीं ह्यवकाशयिष्यन् भवति” “अथ यत्पुत्नीं नावकाशयेत्” शत०१, ३, १, २०, अवकाशः “कृत्वावकाशे रुचिसंप्रकॢप्तम्” भट्टिः अवेक्षणे सक० । “ज्ञातप्रियानूचानानवकाशयेत्” का० श्रौ० ९, ७, १६, “अवकाशयेत् अवेक्षयेत्” कर्कः । आ + समन्तात्स्थितौ आकाशः । अभिज्ञापने सक० । “संप्र- त्युरः पुरुषमाकाश्य” शत० ब्रा० ७, ४, १, ४३, “आकाश्य अभिज्ञाप्य” भा० । [] उद् + ऊर्द्ध्वगतौ ऊर्द्ध्वप्रकाशे च । उत्काशते उत्काशः । नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः । सम् + नि + निष्काशने । “न सन्निकाशयेद्धर्म्मम्” भा० आश्व० ४६ अ० । निर् + निःसारणे । “मात्रा निष्काशयेदेषा पुनः सन्धान- काङ्क्षया” सा० द० । अत्र निःकसोरूपत्वेन निष्कासयेदि- त्येव पाठोयुक्तः प्र + प्रकृष्टदीप्वौ “एषु सर्व्वेषु भूतेषु गूढोत्मा न प्रका- शते” कठो० । “उभावपि प्रकाशेते प्रवृद्धौ वषमाविव” भा० वि० ७५५ श्ली० । प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः । “यमस्य त्वा गृहेऽरसं प्रतिचाकशान” अथ० ६, २९, ३, वि + मुकुलीभावापनोदनेन प्रकाशे । पुष्पं विकाशते । प्रकाशे च । “आदित्य इव तं देशं कृत्स्नं सर्व्वं व्यकाशयत्” भा० आ० ७४५६ श्लो० वीकाशः । सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः “प्रतिस्रोत- स्तृणाग्राणां सहस्रं सञ्चकाशिरे” रामा०
काश--दीप्तौ दिवा० आ० अक० सेट् । काश्यते अकाशिष्ट काशाम्- बभूव आस चक्रे चकाशे ऋदित् णिच् अचकाशत् त
काश पु० केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र अश--व्याप्तौ आधारे घञ् । १ काशरोगे, भरतः । कासशब्दे विवृतिः “काशाश्रुलालाविलः” शान्तिश०२ क्षुते (हाँचि) शब्दर० । तयोः जलेनाकीर्ण्णत्वात्तथात्वम् । काश दीप्तौ अच् । (केशिया) ३ वृणभेदे “केशः काशस्तवकविकाशः” सा० द० “आकर्ण्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य” मावः “कैलासकाशनीकाशमूर्त्त्या” दशकु० “काशः स्यान्मधुरस्तिक्तः स्वादुपाकोहिमः सरः । मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगहृत्” भावप्र० तद्- गुणाद्युक्तम् तत्पुष्पे न० । ईषदश्नाति अश--अच् कोः का । ४ मूषिकभेदे पुंस्त्री स्त्रियां ङीष् । “भूम्या आखू- नालभेत” इत्युपक्रमे “काशान् दिग्भ्यः” यजु० २४, २५, “काशान् मूषिकभेदान्” वेददी० । ५ ऋषिभेदे पु० काशस्य गोत्रापत्यम् अश्या० फञ् । काशायन तद्गोत्रापत्ये पुंस्त्री
📄 मूल मुद्रित पृष्ठ (2030-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।