केत मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अद० चु० उ० सक० सेट् । केतयति ते अचिकेतत् त केतयाम् बभूव आस चकार चक्रे । केतितः सङ्केतः “क्षत्रधर्म्माण- मप्याजौ केतयेत् कुलजं द्विजम्” भा० आनु० १५ ९५ “केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः” ननुः । सम् + इच्छाभेदे शब्दस्यार्थबोधकव्यापारे । “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” काव्यप्र० “साक्षात् सङ्केतितं योऽर्थम्” सा० द० अभिप्रायसूचके चेष्टाभेदे (इसारा) सक० “नामगृहीतं कृतसङ्केतम्” जय० “कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका” अमरः
केत पु० कित--आधारे घञ् । १ निवासे “अब्जकुलिशाङ्कुश केतुकेतैः” भाग० १, १६, २६, भावे घञ् । २ वासे च “अवाङ् मुखाः पक्षिगणाः विशन्ति केतार्थमिवाशु वृक्षम्” भा० क० ४३३८ । ३ प्रज्ञायां निरुक्त० ४ संकल्पे “देवासो अनु केतमायन्” ऋ० ४, २६, २, । “केतं संकल्पम्” भा० । ५ मन्त्रणे च । “आविष्टना पैजवनस्य केतम्” ऋ० ७, १८, २५, “केतं मन्त्रणम्” भा० ६ ज्ञातरि त्रि० । “प्रकेतोऽसि रुद्रेभ्यः” ताण्ड्य० ब्रा० १, १९, १०, प्रकेतः प्रकृष्टं ज्ञातासि” भा० । ७ ध्वजे पु०
📄 मूल मुद्रित पृष्ठ (2230,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।