🕉️ 20 November 2026, Friday · 03:40:09 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कैवल्य
kaivalya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कैवल्य संज्ञा पुं॰ [सं॰]
१. शुद्धता । बेलपन । निलिप्तता । एकता ।
२. मुक्ति । अपवर्ग निर्वाण । विशेष—दर्शनों का यह सिद्धांत है कि जीवात्मा या तो आवरणों के क रणअथवा अविद्या । से भ्रमवश संसार में सुख दुःख भोम रहा है । उसे शुद्ध या भ्रमरहित करना ही शास्त्रों ने अपना परम कर्तव्य समझा है और उसके भिन्न भिन्न साधन बतलाए हैं । सांख्य शास्त्र में— त्रिबिध दुःखों की अत्यत निवृत्ति को कैवल्य माना है और विवेक को उसका एकमात्र साधन बतलाया है । योगशास्त्र में विशेषदर्शी आत्मभाव की भावना अर्थात् अहंकार की निवृत्ति को कैवल्य बतलाया है और चित्र की वृत्तियो के निरोध को ही उसका साधन कहा है । वेदांत में अद्वितिय ब्रह्मभाव की प्राप्ति को कैवल्य माना है और अविद्या की निरोध को इसका साधन ठहराया है । न्याय में दुःख की अत्यंत विमुक्ति को कैवल्य या अपर्वग कहा और उसका साधन प्रमादि षोडश पदार्थों का तत्वज्ञान बतलाया है ।
३. एक उपनिषद का नाम ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कैवल्य n. (fr. केवल), isolation, Vām.
absolute unity, Vedāntas.; BhP.
perfect isolation, abstraction, detachment from all other connections, detachment of the soul from matter or further transmigrations, beatitude, MBh.; KapS.; Sāṃkhyak. &c.
for वैकल्य, Rājat. vii, 1149
कैवल्य mf(आ)n. leading to eternal happiness or emancipation, MBh. xiii, 1101.
📄 मूल मुद्रित पृष्ठ (311,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कैवल्यं [केवलस्य भावः ष्यञ्] 1 Perfect isolation, soleness, exclusiveness. --2 Individuality. --3 Detachment of the soul from matter, identification with the supreme spirit. --4 Final emancipation or beatitude.
📄 मूल मुद्रित पृष्ठ (0425-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कैवल्य न० केवलस्य भावः ष्यञ् । १ आत्यन्तिकदुखविगमरूपे मुक्तिभेदे तत्स्वरूपसत्त्वादिकारणानि च सा० का० तत्त्वकौ- मुद्योर्दर्शितानि यथा “पुरुषोऽस्ति भोक्तृ भावात् कैवल्यार्थं प्रवृतेश्च “इतश्चास्ति पुरुष इत्याह कैवल्यार्थं प्रवृत्तेश्च शास्त्रकाराणां महर्षीणाञ्च दिव्यलोचनानां कैवल्यञ्चात्य- लिकदुःखत्रयप्रशमलक्षणं न बुद्ध्यादीनां सम्भवति ते हि दुःखाद्यात्मकाः कथं स्वभाबाद्वियोजयितुं शक्यन्ते तद- तिरिक्तस्य त्वतदात्मन आत्मनस्ततो वियोगः शक्यसम्पा- दः तस्मात्कैवल्यार्थं प्रवृत्तेरागमानां महर्षीणाञ्चास्ति बुद्ध्याद्यतिरिक्त आत्मेति सिद्धम्” तत्त्वकौमुदी “कैवल्यं माध्यस्थ्यं द्रल्वत्वमकर्त्तृभावश्च” सा० का० “आत्यन्तिकदुःखत्रयाभावः कैवल्यं तच्च स्वभावादेव अत्रैगुण्टात् सुखदुःखमोहरहितत्वात् सिद्धम्” कौ० [] “पुरुषस्य दर्शनांर्थं कैवल्यार्थं तथा प्रधानस्य” का० “षुरषस्यापेक्षां दर्शयति पुरुषस्य कैवल्यार्थम् । तथा हि प्रधानेन सम्मिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभि- मन्यमानः कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यता- ख्यातिनिबन्धनम् । न च सत्वपुरुषान्यताख्यातिः प्रधा- नमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । अनादि- त्वाच्च संयोगगपरम्परायाः भोगाय संयुक्तोऽपि कैव- ल्याय पुनः संयुज्यते इति युक्तम्” त० कौ० विवृतञ्चै- तदस्माभिः “व्यवहितमपि पुरुषस्येति पदं कैवल्या र्थमित्यत्रान्वेतोयाख्यातुं पुरुषस्यापेक्षामुत्थापयति पुरुष- स्यापेक्षमिति प्रकृसेरिति शेषः । कैवल्यं केवलीभावः स च अतुभूयमानस्य बुद्धिधर्म्मस्य दुःस्वत्रयस्य विनाश- एव, तदर्थं तदुद्देशेन पुरुषस्य प्रकृत्यपेक्षा । तथा हि इष्टविषवेच्छया इष्टसाधनाय प्रवर्त्तमानो दृष्टः । पुरुषश्च आत्मन्यनुभूयमानं दुःखत्रयं जिहासुस्तत्परिहारसाध- नमर्थयते दुःखत्रयाभिघातश्च प्रकृतिपुरुषविवेकाधीन इति प्रकृतिं विना कथङ्कारं पुरुषस्तद्भेदमात्मनि प्रतीयादिति दुःखत्रयाभिधाताथेमपेक्षणीयज्ञानसाधनत्वेन पुरुषस्य प्रकृत्यपेक्षा” । “सम्यग्ज्ञानाधिगमाद्धर्म्म, दीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चक्रम्रमिवद्धृतशरीरः” सा० का० “तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपगोगल- क्षणाय फलाय कल्पते । क्लेशसलिलावसिक्तायां हि बुद्धिभूमौ कर्म्मवीजान्यङ्गुरं प्रसुवत तत्त्वज्ञाननिदावनि- पीतसकलक्लेशसलिलायामूषरायां कुतः कर्म्मवीजानाम- ङ्गुरप्रसवः । तदिदमुक्तं धर्म्मादीनामकारणप्राप्ताविति अकारणत्व्याप्तावित्यर्थः । उत्पन्न तत्त्वज्ञानेऽपि च संस्कारवशात्तिष्ठति यथोपरतेऽपि कुलालव्यापारे चक्रं वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति कालप रपाकवशात्तूपर- ते संस्कारे निष्क्रियं भवति । शरीरस्थितौ च प्रारब्ध- परिपाकौ धर्माधर्म्मौ संस्कारौ । तथाचानुश्रूयते “भे- गेन त्वितरे क्षपयित्वाथ सम्पद्यते” इति “तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति । प्रक्षीयमा- णाविद्याविशेषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धृतशरीर- स्तिष्ठति” त० कौ० विवृतमेतदम्माभिः- “इतरे उत्पन्नविवेकज्ञानाः भोगेन प्रारब्धकर्म्माणीति शेषः क्षपयित्वा नाशयित्वा समाप्येति यावत् अथ--प्रारब्धक- [] र्म्मक्षयानन्तरं सम्पद्यते बन्धशून्यतया कैवल्यभाजनता- रूपेण सम्पद्यते । अस्य--उत्पन्नबिवेकज्ञानस्य तावदेव चिरं कैवल्यप्राप्तौ विलम्बः, यावत् विमोक्ष्ये प्रारब्धकर्म्म- भिरिति शेषः विमोक्ष्ये ततोमुक्तिं प्रापस्यतीत्यर्थः । अथ प्रारब्धकर्म्ममोचनानन्तरं सम्पत्स्ये कैवल्यरूपेण
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कैवल्यं, क्ली, (केवलस्य सर्व्वोपाधिवर्ज्जितस्य भावः इति । केवल + ष्यञ् ।) मुक्तिः । इत्यमरः । १ । ५ । ६ ॥ (तथा च पातञ्जले कैवल्यपादे ३ सूत्रं यथा, “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्” ॥ निमित्तं धर्म्मादि तत्प्रकृतीनामर्थान्तरपरिणामेन प्रयोजकं न हि कार्य्येण कारणं प्रवर्त्तते । वरण- भेदस्तु ततः क्षेत्रिकवत् ततस्तस्मादनुष्ठीयमानाद् धर्म्मात् वरणमावरणकं अधम्मादि तस्यैव विरो- धित्वात् भेदः क्षयः क्रियते तस्मिन् प्रतिबन्धे क्षीणे प्रकृतयः स्वयमभिमतकार्य्याय प्रभवन्ति । क्षेत्रि- [] कवत् । यथा, क्षेत्रिकः कृषीवलः केदारात् केदा- रान्तरं जलं निनीषुर्ज्जलप्रतिबन्धकवरणभेदमात्रं करोति । तस्मिन् भिन्ने जलं स्वयमेव प्रसर द्रूपं परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित् प्रयत्नः । फलतः यावत् योगादिप्रभावेण अधर्म्मा- द्यावरणभेदो न भवेत् तावत् कुतस्तत्त्वज्ञानं किञ्च यावत्तत्त्वज्ञानप्रभावात् सर्व्वा वासना न क्षयं यान्ति तावत् वृथैव कैवल्याशेति ध्येयम् । तथा च तत्रैव । ११ । “हेतुफलाश्रयालम्बनैः संगृ- हीतत्वादेषामभावे तदभावः” ॥ वासनानामनन्तरानुभवो हेतुस्तस्यानुभवस्य रागादयस्तेषामविद्येति साक्षात् पारम्पर्य्येण च हेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयो बुद्धिरालम्बनं यदेवानुभवस्य तदेव वासनानामत- स्तैर्हेतुफलाश्रयालम्बनरनन्तानामपि वासनानां संगृहीतत्वात्तेषां हेतूनामभावे ज्ञानयोगाभ्यां दग्धवीजकल्पत्वे विहिते निर्म्मूलत्वाच्च वासनाः प्ररोहं न यान्ति न वा कार्य्यमारम्भन्त इति तासामभावः ॥ अत्र भगवद्गीतायाम् । ४ । ३७ । “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ! । ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा” ॥ अतएव सत्त्वादिषु गुणेषु कृतार्थेषु भोगाप- वर्गादिलक्षणेषु पुरुषार्थेषु समाप्तेषु कैवल्यमित्येव सारसिद्धान्तवाक्यम् । यथा, पातञ्जले । ३३ । “पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति” । समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ वि- कारानुद्भव क्षणेषु यदि वा चिच्छक्तेर्वृत्तिसारूप्य- निवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते । इत्थं सर्व्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदा- त्मनोरूपमुपपद्यते । अधिष्ठातृत्वञ्च चिद्रूपत्वं तच्च जडात् वैलक्षण्यमेव चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति । एवञ्च सति नित्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यम- स्माभिरुक्तं तद्विहाय दर्शनान्तराणां नान्या गतिः तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । यथा, “पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यव- हारनिष्पत्तिमुपपाद्यपुरुषसत्त्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनो- र्थानभिधाय शास्त्रान्तेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतम्” । परं जन्मौषधिमन्त्र- समाधिजन्यासु सिद्धिषु सतीष्वपि ज्ञानभक्त्यादि योगेन येन केनचिदुपायेन भगवदनुकम्पालाभ एव कैवल्योपायः । पातञ्जलदर्शनटीकाकृत् महाराज- भोजाधीश्वरोप्येतदङ्गीकृत्य कैवल्यपादस्य टीकायां मङ्गलाचरणं कृतवान् । यथा, -- “यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते । तमेकमजमीशानं चिदानन्दमयं स्तुमः” ॥ [] कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्तिकोपनिषदि । “कठवल्लीतैत्तिरीयक- ब्रह्मकैवल्यश्वेताश्वतरेत्युपक्रम्य कृष्णयजुर्व्वेदगतानां द्वात्रिं
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कैवल्य" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें