खर्ज्जूरं, क्ली, (खर्ज्जूरस्य फलम् । फले विहि- तस्याणो लुप् ।) खर्ज्जूरफलम् । अस्य गुणाः । मधुरत्वम् । शीतलत्वम् । गुरुत्वम् । क्षयाभि- घातदाहवातपित्तरोगे हितत्वम् । बृंहणत्वम् । शुक्रवृद्धिकारित्वञ्च । इति राजवल्लभः ॥ (“अपक्वखर्ज्जूरफलं त्रिदोषशमनं मतम् । पक्वमेव हितं श्रेष्ठं त्रिदोषशमनं परम् ॥” इति प्रथमे स्थाने दशमेऽध्याये हारीतेनोक्तम् ॥ यथा च चरके सूत्रस्थाने सप्तविंशेऽध्याये । “मधुरं बृंहणं वृष्यं खर्ज्जूरं गुरु शीतलम् । [] क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ॥”) रौप्यम् । हरितालम् । इति हेमचन्द्रः ॥ खलः । इति मेदिनी ॥
खर्ज्जूरः, पुं स्त्री, (खर्ज्ज मार्ज्जने + “खर्ज्जिपिञ्जा- दिभ्य ऊरोलचौ ।” उणां ४ । ९० । इति ऊरः ।) खर्ज्जूरीवृक्षः । खेजुर गाछ इति भाषा ॥ अस्य मस्तिष्कगुणाः । स्वादुत्वम् । तिक्तत्वम् । कषायत्वम् । मूत्रातङ्करोगनाशि- त्वम् । बलप्राणशुक्रवृद्धिकारित्वञ्च । इति राज- वल्लभः ॥ (“खर्ज्जूरश्च विषं हन्ति तदा वै नात्र संशयः ।” इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे विषाधिकारे ॥) वृश्चिकः । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (2-278-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।