🕉️ 19 November 2026, Thursday · 04:38:28 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गण्ड
gaṇḍa
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
हाथी की कनपटी (2.8.37) कट
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गण्ड m. (cf. गल्ल) the cheek, whole side of the face including the temple (also said of animals, e.g. of an ox, VarBṛS.; of a horse, ib.; of an elephant [cf. -करट] Pañcat.; BhP. &c.), Yājñ. &c. (ifc. f(आ). , Ṛtus.; f(ई). , Kathās. xx)
the side, Rāmapūjāsar.
a bubble, boil, pimple, Suśr.; Śak. ii (Prākṛt), Mudr.; Vop.
a goitre or any other excrescence of the neck, AitBr. i, 25; Car. i; Suśr.
a joint, bone, L.
the bladder, L.
a mark, spot, L.
part of a horse's trappings, stud or button fixed as an ornament upon the harness, L.
a rhinoceros (cf. गण्डक and ˚डाङ्ग), L.
a hero (cf. गण्डीर), L.
‘the chief’, best, excellent (only in comp.; cf. -ग्राम, -मूर्ख, -शिला, &c.), L.
N. of the 10th astrological Yoga
an astronomical period (cf. गण्डान्त), W.
a pledge, Mṛcch.
गण्ड m. n. the abrupt interchange of question and answer (one of the characteristics of the dramatic composition called Vīthi), Sāh. vi, 256 and 260; Daśar.; Pratāpar.
📄 मूल मुद्रित पृष्ठ (344,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गंडः 1 The cheek, the whole side of the face including the temples; गंडाभोगे पुलकपटलं Māl. 2. 5; तदीषदार्द्रारुणगंडलेखं Ku. 7. 82; Me. 26, 92; Amaru. 81; Rs. 4. 6; 6. 10; Ś. 6. 17; Śi. 12. 54. --2 An elephant's temple; Māl. 1. 1. --3 A bubble. --4 A boil, tumour, swelling, pimple; अयमपरो गंडस्योपरि विस्फोटः Mu. 5; तदा गंडस्योपरि पिटिका संवृत्ता Ś. 2. --5 Goitre and other excrescences of the neck. --6 A joint, knot. --7 A mark, spot. --8 A rhinoceros. --9 The bladder. --10 A hero, warrior. --11 Part of a horse's trappings, a stud or button fixed as an ornament upon the harness. --12 An unexpected combination of words consisting in putting one speech immediately after another, so [] as to be syntactically connected; see वीथि; e. g. राक्षसः --अपि नाम चाणक्यबटुः -दौ-जयतु-रा. अतिसंधातुं शक्यः स्यात्. --दौ. अमात्यः Mu. 4; so किमस्या न प्रेयो यदि पुनरसह्यस्तु विरहः. --दौ. देव उपस्थितः U. 1 --13 The tenth yoga or one of the twenty-seven portions of a circle on the plane of the ecliptic. --14 An astronomical period. --Comp. --अंगः a rhinoceros. --उपधानं a pillow; मृदुगंडोपधानानि शयनानि सुखानि च Suśr. --कुसुमं the juice that exudes from the elephant's temples during rut, ichor. --कूपः a well on the peak or summit of a mountain. --ग्रामः any large or considerable village. --देशः, --प्रदेशः, --स्थलं, --पाली, --पिंडः {1} the cheek, the temples of an elephant. {2} temple-region (in general); U. 2. 9; Māl. 9. 31. --फलकं a broad cheek; धृतमुग्धगंडफलकैर्विबभुर्विकसद्भिरास्यकमलैः प्रमदाः Śi. 9. 47. --भित्तिः f. {1} the opening in the temples of an elephant from which ichor exudes during rut. {2} ‘a wall-like cheek’, an excellent i. e. broad and expansive cheek; निर्धौतदानामलगंडभित्तिः (गजः) R. 5. 43 (where Malli. says प्रशस्तौ गंडौ गंडभित्ती, see et seq.), 12. 102. --मालः, --माला inflammation of the glands of the neck. --मूर्ख a. exceedingly foolish, very stupid. --शिला any large rock. --शैलः {1} a huge rock thrown down by an earthquake or storm; Ki. 7. 37. {2} the forehead. --साह्वया N. of a river, also called गंडकी. --स्थलं, --स्थली the cheek; गंडस्थलेषु मदवारिषु Pt. 1. 123; Ś. Til. 7; गंडस्थलीः प्रोषितपत्रलेखाः R. 6. 72; Amaru. 77. {2} temples of an elephant.
📄 मूल मुद्रित पृष्ठ (0449-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गण्ड पु० गडि + वदनैकदेशे अच् । १ कपोले(गाल) २ हस्तिकपोले च अमरः । ३ गण्डके पुंस्त्री० ४ वीथ्यङ्गे ५ पिटके ६ चिह्ने ७ वीरे ८ हयभूषणे ९ बुद्वुदे च मेदि० । १० स्फोटके ११ ग्रन्थौ रमा- नाथः । विष्कुम्भादिषु १२ दशमे योगे । १३ अश्विन्यादिनक्ष- त्राणां दण्डभेदे । गण्डमाह ज्ये० त० “अश्विनी मथ- मूलानां तिस्रो गण्डाद्यनाडिकाः । अन्त्याः पौष्णोर- गेन्द्राणां पञ्चैव जवना जगुः । मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवती- तुरगर्क्षयोः । तत्र जातस्य दोषा यथा । सन्ध्यारात्रि दिवाभागे गण्डयोगोद्भवः शिशुः । आत्मानं मातरं तातं विनिहन्ति यथाक्रमम्” “मूलयाः प्रथमे पादे पितुर्वपुर्विनश्यति । द्वितीये नियतां पीडां मातुः कुर्य्यात् पितुस्तथा । तृतीये धननाशञ्च चतुर्थे सर्व- सम्पदः । व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ववत् ।” “दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् । नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पार्वतीम् ।” विस्तरस्तु मुहूर्त्तचिन्तामणौ पीयूषधारायाञ्चोक्तो यथा । “अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हि नारदः । वसिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेक- घटीप्रमाणकम् । अथोचुरन्ये प्रथमाष्टघट्योमूलस्य शा- क्रान्तिमपञ्चनाड्यः । जातं शिशुं तत्र परित्यजेद्वा सुखं पिताऽस्याष्टसमा न पश्येत्” । “आद्ये पिता [] नाशमुपैति मूलपादे, द्वितीये जननी तृतीये । घनं चतु- र्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत् स्यादहिभे विलोमम् । स्वर्गे शुचिप्रोष्ठपदेषमाघे भूमौ नभःकार्त्तिकचैत्रपौषे । मूलं ह्यधस्तात्तुतपस्यमार्गबैशाखशुक्रेष्वशुभं च तत्र । गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे संक्रान्ति व्यतिपातवैधृतिसिनीबालीकुहूदर्शके । वज्रे कृष्णचतु- र्द्दशीषु यमघण्टे दग्धयोगे मृतौ विष्टौ सोदरभे जनिर्न पितृभे शस्ता शुभा शान्तितः” मु० चि० । एतद्व्याख्या पी० धा० “अत्राभुक्तमूलस्यानेके भेदाः तत्रैकस्तावदयं भेदः ज्ये- ष्ठानक्षत्रान्तेभवं ज्येष्ठान्त्यं मूलादौ भवं मूलादिभवं ज्येष्ठान्त्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयं मिलित्वाष्टौ घटिकाः प्रहर इति यावत्ताबान् कालो ऽभुक्तमूलाख्यः (गण्डाख्यः) इति नारद आह (उप- लक्षणत्वादश्लेषान्तिमघटीचतुष्टयं मघादिमघटीचतुष्टयं चाभुक्तमूलाख्यः कालः यदाह नारदः “यो ज्येष्ठामूल- योरन्तरालप्रहरजः शिशुः । अभुक्तमूलजः सार्पमघानक्षत्र- योरपीति” । तथापरोभेदः एकेति ज्येष्ठान्ते एकघटीमितं मूलादौ घटीद्वयमितमेवं मिलित्वा त्रिघटिकमभुक्तमूलं स्वा- दिति वसिष्ठमुनिर्जगौ यदाह वसिष्ठः “ज्येष्ठान्त्यपादघटि- कामितमेव केचिन् मूलं ह्यभुक्तमपरे पुनरामनन्ति । मूला- द्यपादघटिकाद्वितयेन सार्द्धमष्टौ समाःपरिहरेदिह जन्म- भाजमिति” समा वर्षाणि । अथान्योभेदः एकेति ज्येष्ठान्त्या- र्द्धघटिका मूलाद्यार्द्ध घटिका मिलित्वा एकघटी प्रमाणमस्य तदेकघटीप्रमाणकं “शेषाद्विभाषा” इति पा० कप् तादृशमभुक्त- मूलं स्यादिति वृहस्पतिर्जगौ तदाह गुरुः “ज्येष्ठान्त्यघटि- कार्द्धञ्चमूलादौ घटिकार्द्धकम् । तयोरन्तर्गता नाडी ह्यभुक्त- मूलमुच्यत” इति अथेतरो भेदः अथेति अथशब्दः पादपूरणे मूलनक्षत्रस्य प्रथमा आदिमा अष्ट घटिकाः शाक्रस्य ज्ये- ष्ठायाः अन्तिमाः षञ्च नाड्यः पञ्च घटिकाः । एवमुभयो- र्ज्येष्ठा मूलयोरन्तरालवर्त्तिन्यस्त्रयोदशघटिका अभुक्तमूल- मिति लोका ऊचुः । “ज्येष्ठान्त्यघटिकाः पञ्च मूलाद्या वसुनाडिकाः । अभुक्तमूलमित्युक्तं तत्र जातं शिशुं त्यजे- दिति” स्मरणात् । एवमभुक्तमूलस्यानेकभेदसम्भवे कः सा- धीयान् पक्ष इति चेत् उच्यते नारदोक्तः पक्ष एव साधीयान् किमत्र प
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गण्डः, पुं, (गडि आस्यैकदेशे + अच् । यद्बा गम गतौ + “ञमन्ताड्डः ।” उणां । १ । ११३ । इति डः ।) हस्तिकपोलः । (यथा, पञ्चतन्त्रे । १ । ३५६ । “प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्द्ध्नि समाधत्ते केशरी मत्तदन्तिनः ॥”) तत्पर्य्यायः । कटः २ । इत्यमरः । २ । ८ । ३७ ॥ करटः ३ । इति तट्टीका ॥ कटकः ४ हस्ति- गण्डकः ५ । इति शब्दरत्नावली ॥ कपोलः । इत्यमरः । २ । ६ । ९० ॥ गाल इति भाषा ॥ (यथा, कुमारे । ७ । ८२ । “तदीषदार्द्रारुणगण्डलेखं उच्छासिकालाञ्जनरागमक्ष्णोः ॥”) खड् गी । वीथ्यङ्गम् । पिटकः । चिह्नम् । वीरः । हयभूषणम् । वुद्वुदः । इति मेदिनी ॥ स्फोटकः । ग्रन्थिः । इत्यमरटीकायां रमानाथः ॥ विष्कुम्भादिसप्तविंशतियोगान्तर्गतदशमयोगः । (यथा, ज्योतिषवचने । “गण्डो वृद्बिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”) तत्र जातफलम् । “स्वकार्य्यकर्त्ता परकार्य्यहर्त्ता गण्डोद्भवः स्यादतिगण्डवाक्यः । अत्यन्तधूर्त्तः पुरुषः कुरूपः सुहृद्गणानामतितापदाता ॥” इति कोष्ठीप्रदीपः ॥ * ॥ दोषजनकोऽश्विन्यादिनक्षत्राणां भागविशेषः । यथा, -- “अश्विनीमघमूलानां तिस्रो गण्डाद्यनाडिकाः । अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः ॥ मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगर्क्षयोः ॥” * ॥ तत्र जातस्य दोषो यथा, -- “सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः । आत्मानं मातरं तातं विनिहन्ति यथाक्रमम् ॥” तस्य शान्तिर्यथा, -- “सर्व्वेषां गण्डजातानां परित्यागो विधीयते । [] तातेनादर्शनं वापि यावत् पाण्मासिको भवेत् ॥ कुङ्कुमं चन्दनं कुष्ठं गोरोचनमथापि वा । घृतैरेवान्वितं कृत्वा चतुर्भिः कलसैर्ब्बुधः ॥ सहस्राक्षेण मन्त्रेण बालकं स्नापयेत्ततः । पितृयुक्तं दिवाजातं मातृयुक्तञ्च रात्रिजम् ॥ स्नापयेत् पितृमातृभ्यां सन्ध्ययोरुभयोरपि । कांस्यपात्रं घृतैः पूर्णं गण्डदोषोपशान्तये ॥ दद्याद्धेनुं हिरण्यञ्च ग्रहांश्चापि प्रपूजयेत् । मूलायाः प्रथमे पादे पितुर्व्वपुर्व्विनश्यति ॥ द्वितीये नियतां पीडां मातुः कुर्य्यात् पितुस्तथा । तृतीये धननाशाय चतुर्थे सर्व्वसम्पदः ॥ व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्व्ववत् । वल्मीकमृत्तिकां नद्यास्तूभयतटमृत्तिकाम् ॥ गोविषाणमृदञ्चापि दन्तिमृदञ्च निःक्षिपेत् । तीर्थाम्भःपञ्चगव्येन स्नानं मातुः पितुः शिशोः ॥ दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् । नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पर्व्वतम् ॥” इति ज्योतिषतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (2-295-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गण्ड" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें