🕉️ 20 November 2026, Friday · 04:32:19 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गुह्यक
guhyaka
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
विद्याधर, अप्सरा, यक्ष, राक्षस, गन्धर्व, किन्नर, पिशाच, गुह्यक, सिद्ध (1.1.11) विद्याधर · अप्सरा · यक्ष · राक्षस · गन्धर्व · किन्नर · पिशाच · सिद्ध · भूत
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गुह्यक m. N. of a class of demi-gods who like the Yakṣas are attendants of Kubera (the god of wealth) and guardians of his treasures (they may have received their N. from living in mountain caverns), Mn. xii, 47; MBh.; Hariv. &c. (identified with Yakṣas, MBh. v, 7480; Megh. 5 &c.)
the number ‘eleven’, Sūryas.
N. of Kubera, L.
गुह्यक m. ‘mystery’, see तथागत-ग्˚.
📄 मूल मुद्रित पृष्ठ (360,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गुह्यकः N. of a class of demigods, who, like the Yakṣas, are attendants of Kubera and guardians of his treasures; गुह्यकस्तं ययाचे Me. 5, Ms. 12. 47. --Comp. --अधिपतिः [] --ईश्वरः an epithet of Kubera.
📄 मूल मुद्रित पृष्ठ (0464-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुह्यक पु० गूहन्ति रक्षन्ति निधिं गुह--स्त्वुल् पृषो० यगा- गमः । “निधिं गूहन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः इति व्याडिः । गुह्यं कुत्सितं कायति कै--शब्दे कः गुह्यं गोपनीयं कं सुखं येषामिति वा अनयोः पक्षयोः “शंसिदुहिगुहिभ्योवेति” काशिकावचनात् गुहेः क्यप् । १ देवयोनिभेदे तल्लोकप्राप्तिकर्मभेदाः काशी० ख० उक्ता यथा “गुह्यकानामयं लोकस्त्वेते वैगुह्यकाः स्मृताः” “न्यायेनोपार्ज्य वित्तानि गूहयन्ति च ये भुवि । स्वमार्गगा धनाद्याश्च शूद्रप्रायाः कुटुम्बिनः । संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः । न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व च । नाधर्मञ्च न धर्मञ्च विदन्त्येते सदासुखाः । एकमेव हि जा- नन्ति कुलपूज्योहि यो द्विजः । तस्मै गाः संप्रयच्छन्ति मन्यन्ते तद्वचः स्फुटम् । समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः । भुञ्जते स्वर्गसौख्यानि देवत्व- मकुतोभयाः” । २ पकान्नभेदे तत्पाकप्रकारो यथा “समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम् । एलालवङ्गकर्पूरमरीचपरिवासिताम् । क्षिप्त्वान्य समितालम्बपुटे वेष्ट्य घृते पचेत् । ततः खण्डे न्यसेत् पक्वे गुह्यकोऽयमुदाहृतः । गुह्यको वृंहणोहृद्यो वृष्यः पित्तानिलापहः मधुरोऽतिगुरुः पाके किञ्चित् सन्धानकृत्सरः” पाकशा०
📄 मूल मुद्रित पृष्ठ (2628,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुह्यकः, पुं, (गूहति निधिं धनविशेषं रक्षतीति । गुह् + ण्वुल् । पृषोदरादित्वाद्यगागमे साधुः ।) देवयोनिविशेषः । स तु कुवेरानुचरः निधि- रक्षको माणिभद्रादियक्षभेदः । इत्यमरभरतौ ॥ (कार्य्योत्पत्त्यादिभेदेनैष तु बहुधोदाह्रियते तथाच व्याडिनोक्तम् । “निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः ॥” गुह्यं कुत्सितं कायति शब्दायते प्रकाशयति वा । कै + कः । यद्वा गुह्यं गोप्यं कं सुखं यस्य । “शंसिदुहिगुहिभ्योवेति” काशिकोक्तेः क्यप् वा । यद्वा गुह्यात् सृष्टिं चिकीर्षोः परब्रह्मणः कृष्णस्य गुह्यदेशात् कायति आविर्भवतीति । यदुक्तं ब्रह्मवैवर्त्ते ब्रह्मस्वण्डे । ५ । ६० । “आविर्ब्बभूव कृष्णस्य गुह्यदेशात्ततः परम् । पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह । आविर्भूता यतो गुह्यात् तेन ते गुह्यकाः स्मृताः ॥” यथा, महाभारते । ३ । ३ । १० । “तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः । सिद्धचारणगन्धर्व्वा यक्षगुह्यकपन्नगाः ॥”) तस्य लोकः पिशाचलोकादूर्द्ध्वं गन्धर्व्वलोकादधः । येन येन कर्म्मणा एतल्लोकप्राप्तिस्तदुच्यते । “ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनैर्वृतम् । पित्तिण्डिलैः स्थूलवक्रैर्मेघगम्भीरनिस्वनैः ॥ [] लोकैरध्युषितं लोकं श्यामलाङ्गैश्च लोमशैः । गणौ कथयतं केऽमी को लोकः पुण्यतः कृतः ॥ गणावूचतुः । गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः । न्यायेनोपार्ज्य वित्तानि गूहयन्ति च ये भुवि ॥ स्वमार्गगा धनाढ्याश्च शूद्रप्रायाः कुटुम्बिनः । संविभज्य च भोक्तारः क्रोधासूयाविवर्ज्जिताः ॥ न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व्व च । नाधर्म्मञ्च न धर्म्मञ्च विदन्त्येते सदासुखाः ॥ एकमेव हि जानन्ति कुलपूज्यो हि यो द्विजः । तस्मै गाः संप्रयच्छन्ति मन्यन्ते तद्वचः स्फुटम् ॥ समृद्धिभाजो ह्यत्रापि तेन पुण्येन गुह्यकाः । भुञ्जते स्वर्गसौख्यानि देवत्वमकुतोभयाः ॥” इति काशीखण्डे शिवशर्म्मणो वैकुण्ठलोकगमने विष्णुगणसंवादः ॥ (पक्वान्नविशेषः । तस्य पाकप्रकारो यथा, शब्दार्थचिन्तामणिधृतपाक- शास्त्र । “समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम् । एला लवङ्गकर्पूरमरीचपरिवासिताम् ॥ क्षिप्त्वान्यसमितालम्बपुटे वेष्ट्य घृते पचेत् । ततः खण्डे न्यसेत् पक्वे गुह्यकोऽयमुदाहृतः ॥” अस्य गुणास्तत्रैव । यथा, -- “गुह्यको बृंहणो हृद्यो वृष्यः पित्तानिलापहः । मधुरोऽतिगुरुः पाके किञ्चित् सन्धानकृत् सरः ॥”)
📄 मूल मुद्रित पृष्ठ (2-347-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें