त्वच्(चा) स्त्री त्वच्यते संव्रियते देहोऽनया त्वचति सं- वृणोति वा देहम् त्वच--क्विप् । १ गुडत्वचि (दारचिनि) २ वल्कले ३ चर्मणि च मेदि० । ४ स्पर्शग्राहके वाह्येन्द्रियभेदे सा च देहव्यापिनी त्वचिस्थिता सूक्ष्मा- वायोः सत्त्वांशेनोत्पन्ना वाताधिष्ठातृदेवताका” वेदा० सा० दृश्यम् । तत्र “उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच् चक्षुषो योग्यं रूपमत्रापि कार- णम् । द्रव्याध्यक्षे, त्वचो योगो मनसा ज्ञानकारणम्” भाषा० चर्म्मन् शब्दे २९०३ पृ० दृश्यम् । चर्मणि “त्वचं समेध्यां परिधाय रौरवीम्” रघुः “आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः । “त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा० । वल्कले “भुर्जत्वचः कुञ्जरविन्दुशोणाः” कुमा० । गुडत्वचि “त्वगेलापत्रकै- स्तुल्यैः त्रिसुगन्धि त्रिजातकम्” राजनि० । हलन्तत्वात् वा टाप् । तत्रार्थे शब्दरत्ना० त्वचापत्रम् । “मुक्तत्वच इवोरगः” भा० शा० २५० अ० । “श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्द्ध्वरोमा महत्त्रचः” हरिवं १७९ अ० ।
📄 मूल मुद्रित पृष्ठ (3401,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।