दूतः, पुं, (दूयते वार्त्तावहनादिनेति । दू + “दूत- निभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तः दीर्घश्च ।) वार्त्ताहरः । तत्पर्य्यायः । सन्देश- हरः २ । इत्यमरः । २ । ८ । १६ ॥ सन्दिष्ट- कथकः ३ । इति शब्दरत्नावली ॥ तस्य लक्षणं यथा, -- “यथोक्तवादी दूतः स्याद्देशभाषाविशारदः । शक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥ विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः । वक्ता नयस्य यः काले स दूतो नृपतेर्भवेत् ॥” इति मत्स्यपुराणम् ॥ अपि च । “मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः । धीरो यथोक्तवादी च एष दूतो विधीयते ॥” इति चाणक्ये । १०६ ॥ अन्यच्च । “परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित् । सदोत्पन्नमतिर्घीरो दूतः स्यात् पृथिवीपतेः ॥ दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् । इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुलसम्भवम् ॥ अनुरक्तः शुचिर्द्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ दूत एव हि सम्मत्तो भिनत्त्येव हि सङ्गतान् । विमृष्यार्थो मितार्थश्च तथा शासनहारकः ॥ [] दूतास्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्जितैः । विमृष्यार्थं कार्य्यवशात् शासनं न करोति यः ॥ मितार्थः कार्य्यमात्रोक्तौ न कुर्य्यादुत्तरोत्तरम् । यथोक्तवादी सन्देशहारको लेखहारकः ॥ तत्र दूतो व्रजन्नेव चिन्तयेदुत्तरोत्तरम् । वार्त्ताविशेषं भूपाय झटिचित्यङ्गवेश्मनि ॥ दूतो हि न लिखेत् किञ्चित् निर्णेता विनि- संशयम् । पृच्छ्यमानोऽपि न ब्रूयात् स्वामिनः क्वापि वैशसम् ॥” इति युक्तिकल्पतरुः ॥ * ॥ अथ दूते वर्णनीयानि । निजप्रभुतेजः श्रीविक्रमौ- न्नत्यकरवाक्यम् १ शत्रुक्षोभकरचेष्टा २ अधर्ष- णीयता ३ दक्षता ४ निर्भयत्वम् ४ । इति कवि- कल्पलता ॥ (वैद्यकोक्तदूतो यथा, -- “आतुरोपक्रमार्थन्तु दूतो याति भिषग्गृहे । तस्य परीक्षणं कार्य्यं येन संलक्ष्यते गदः ॥ खञ्जान्धमूकं वधिरञ्च वामनं स्त्रियञ्च कुब्जं तृषितञ्च जीर्णम् । श्रान्तं क्षुधार्त्तं श्रमितञ्च दीनं शस्तं न वै वेदविदो वदन्ति ॥” “यः कर्कशः क्रोधनपाशपाणि- र्भिषग्विगर्हीकृतशौवृतश्च । एते न शस्ताः प्रवदन्ति धीरा दूता विकारं प्रतिवर्द्धयन्ति ॥ यः काष्ठहस्तोद्धतपाशपाणि- स्तथातुरो दीनवचाहि रोदितः । प्रक्लिन्ननेत्रोगमनोत्सुकोऽपि वर्ज्ज्यो रुजार्त्तोऽशुभकारिदूतः ॥” “नकूटहस्तोऽवष्टभ्य वक्रपादेन तिष्ठति । तस्मादाकुण्ठवादी यो न शस्तो वैद्यकर्म्मणि ॥ यथा गच्छति शीघ्रेण आविश्योत्थाय मुह्यति । पादौ प्रसार्य्य विशति मस्तके विन्यसेत् करम् ॥ भिनत्ति लोष्ट्रकाष्ठञ्च तृणं स्फोटयते क्वचित् । अथवा स्पृशते नाशां स्तनं वा स्पृशते पुनः ॥ भूमिं लिखति पादेन रेखां वापि करोति यः । निद्रां वा कुरुते यस्तु स दूतोऽरिष्टकारकः ॥ यः श्वेतवस्त्रावृतपूर्णपाणिः सम्पूणताम्बूलमुखः प्रशस्तः । द्विजस्तथा माणवकः सुशीलः प्रज्ञाधिकश्चाह्वयते सुखाय ॥” “आगत्योदीच्यपूर्व्वामथ वरुणदिशमैशमाश्रित्य शान्तो दृष्ट्वा वैद्यं प्रहस्य प्रवदति निपुणं नातिनीचं न चोच्चम् । उत्तिष्ठेति प्रसादं कुरु वचनमिदं सौख्यवार्त्तां तनोति प्राज्ञैः स्वार्थं प्रकृष्टं मुखमगदहरं रोगिणां वैद्यलाभम् ॥ पर्ब्बां दिशं समासाद्य प्रशान्तः शान्तया गिरा । वदन्ति वैद्यलाभाय रोगिणाञ्च सुखावहम् ॥ ग्रश्चागत्योपविष्टोऽपि श्लोकं वाथ सुभाषितम् । [] वदते शान्तया वाचा वैद्यलाभश्च शान्तये ॥ योऽभिवाद्यापि वैद्यस्य क्षेमं संपृच्छते पुनः । फलं ददाति पुष्पं वा रोगिणाञ्च सुखावहम् ॥ तस्य सौख्यं रुजां शान्तिर्यस्य दूता इदं विदुः । किमत्र बहुनोक्तेन रम्यो दूतः सुखावहः ॥” इति हारीते द्वितीयस्थाने षष्ठेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-736-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।