प्रतीची, स्त्री, (प्रतिदिनान्तं प्रतिदिनान्ते इत्यर्थः अञ्चति सूर्य्यमिति । अञ्चु गतिपूजनयोः + “ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाञ्च ।” ३ । २ । ५९ । इति क्विन् अन्लोपो दीर्घश्च । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।) पश्चिम- दिक् । इत्यमरः । १ । ३ । १ ॥ (यथा, महा- भारते । ४ । ४१ । १८ । “येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशमाहवे । कलापो ह्येष तस्यासीन्माद्रीपुत्त्रस्य धीमतः ॥” त्रि, पश्चिमाभिमुखी । यथा, ऋग्बेदे । १ । ९२ । ९ “विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन् मनायोः ॥” “भुवना भुवनानि भूतजातान्यभिचक्ष्याभि- प्रकाश्य प्रकाशवन्ति कृत्वानन्तरं प्रतीची प्रत्यङ्- मुखी सती ।” इति तद्भाष्ये सायङः ॥ प्रति- निवृत्तमुखी । यथा, ऋग्वेदे । १ । १२४ । ७ । “अभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये धनानाम् ॥” “अभ्रातेव भ्रातृरहितेव पुंसः पित्रादीन् प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी ।” इति तद्- भाष्ये सायङः ॥)
📄 मूल मुद्रित पृष्ठ (3-268-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।