वर्त्तमानः, पुं, (वर्त्तते इति । वृत् + शानच् । मुक् ।) प्रयोगाधिकरणीभूतकालः । इति नैयायिकाः ॥ तत्कालवृत्ते, त्रि । तयोः पर्य्यायौ । अद्यतनः २ अधुनातनः ३ । इति राजनिर्घण्टः ॥ वैया- करणमते तु । आरब्घापरिसमाप्तिर्व्वर्त्तमानः कालः । यथा । महाभारतं पठति । स तु चतुर्विधः । यथा, -- “प्रवृत्तोपरतश्चैव वृत्ताविरत एव च । नित्यप्रवृत्तः सामीप्यो वर्त्तमानश्चतुर्विधः ॥” क्रमेणोदाहरणानि । मांसं न खादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयति इत्यर्थः । इह कुमाराः क्रीडन्ति तदानीन्तनक्रीडनाभावेऽपि पूर्व्वक्रीडानां बुद्धौ वर्त्तमानत्वात् । पर्व्वता- स्तिष्ठन्ति नित्यप्रवृत्तत्वात् । किञ्च पर्व्वतानां स्थितत्वे वर्त्तमानत्वेऽपि मूतभविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्व्वतास्तस्थुः स्थास्यन्ति इत्यपि स्यात् । सामीप्यो द्विविधः । भूतसामीप्यो भविष्यत्- सामीप्यश्च । भूतसामीप्ये यथा । कदा आगतो- ऽसि इति प्रश्ने अध्वस्वेदादेर्व्वर्त्तमानत्वात् एषो- ऽहमागच्छामि इति आगतोऽपि वदति । भवि- ष्यत् सामीप्ये यथा । कदा गमिष्यसि इति प्रश्ने एषोऽहं गच्छामि इति गमनक्रियमाणोद्यमो- ऽपि वदति । इति मुग्धबोधटीकायां दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (4-290-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।