व्योम, [न्] क्ली, (व्ये ञै वृतौ + “नामन् सीम- न्निति ।” उणा० ४ । १४६ । इति निपातनात् साधुः । यद्वा, “विपूर्व्वादवतेर्व्याप्त्यर्थत्वात् औणादिके ‘सर्व्वधातुभ्यो मनिन् ।’ इति सूत्रेण मनिन्प्रत्यये ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।’ इत्युटि गुणः । व्यवति व्याप्नोति सर्वं जगत् । [] यद्वा अवतिर्गत्यर्थः भावे मन् ओम् । अवनं गमनं विविधमस्मिन् विद्यते । यद्वा रक्ष- णार्थः विशेषेणावति प्राणिनोऽवकाशप्रदानेन । उणादौ तु नामन् सीमन् व्योमन् इत्यादिना व्येञ् संवरणे इत्यस्मान्मनिनि उत्वं निपात्यतें । दीयते तद्बायुना व्योम । तथाच निरुक्तम् योनिरन्तरिक्षं महानवयवः परिवीतो वायुना इति ।” इति निघण्टुटीका । १ । ३ । ३ ।) आकाशः । इत्यमरः ॥ (यथा, रघुः । ४ । २९ । “रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः । भुवस्तलमिव व्योम कुर्व्वन् व्योमेव भूतलम् ॥”) जलम् । भास्करस्यार्च्चनाश्रयः । इति मेदिनी ॥ अभ्रकम् । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (4-554-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।