ई अव्य० ई क्विप् । १ विषादे २ दुःखभावनायाम् ३ क्रोधे ४ अनुकम्पायाम् ५ प्रत्यक्षे ६ सन्निधौ ७ संबोधने च । मेदि न्यामयं सान्ततया पठितः । पृषो० साधुः ।
ई स्त्री अस्य विष्णोः पत्नो ङीष् । लक्ष्म्याम् ।
ई कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सक० गर्भ- ग्रहणे अक० अदादि अनिट् पर० । एति ईतः इयन्ति । ऐत् । ऐषीत् । इयाय इयतुः । एता एष्यति ऐष्यत् । “ईतः । अस्यात्मनेपदित्वमपि “न हि तरणि- रुदीते” दिक्पराधीनवृत्तिः” कविक० टी० दुर्गा० ।
ई याचने द्विक्र० आत्मने० अदादि अनिट् निरु० । ईते इयीत ईताम् । ऐत । ऐष्ट । इये । “आ वोदेवास ईमहे वामं प्रत्यध्वरे” यजु० ४, ५ । “अजस्रं घर्ममी- महे” यजु० २६, ६ ।
ई गतौ दिवा० सक० अनिट् आत्म० । ईयते ऐष्ट । ईतः “पद्मैरन्वीतबधूमुखद्युतः” माघः । ईङ्--गतौ मल्लि० ।
ई “ईर्मूर्त्तिः स्त्री महामाया लोलाक्षी वामलोचनम् । गो- विन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः । विष्णुर्लक्ष्मी- र्महेशश्च वह्निशुद्ध्वःपरापरः । कालोत्तरी भेरुरण्डा रतिश्च पाण्डुवर्द्धनः । शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमा- लिनी । वैष्णवी वल्लवी जिह्वा कामकला सनादिका । पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका । कुचद्वन्द्वं तर्ज्जनीशो शात्तिस्त्रिपुरसुन्दरी ।
ई “ईकारं परमेशानि स्वयं परमकुण्डलीम् । ब्रह्मावष्णु- मयं वर्णं तथा रुद्रमयंसदा । पञ्चदेवमयंवर्णं पीत विद्युल्लताकृतिम् । चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा” ।
📄 मूल मुद्रित पृष्ठ (1006,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।