काकोलं, क्ली, (काकयति लोलयति दुःखदत्वात् । ककलौल्ये + णिच् + ओल । काकेन उल्लायते भ- क्ष्यते अत्र वा आधारे घञर्थेकः पृषोदरादित्वात् साधुः ।) नरकविशेषः । इति मेदिनी ॥ (यथा, मनुः ॥ “महानरककाकोलं सञ्जीवनमहायसम्” ॥)
काकोलः, पुं क्ली, (कु कुत्सितं तीव्रतरं यथा स्यात् तथा कोलति पीडयति विह्वलीकरोति वा- ऽनेन करणे घञ् ।) कृष्णवर्णस्थावरविषविशेषः । इत्यमरः । १ । ८ । १० ॥ “काकोलमुग्रतेजः स्यात् कृष्णच्छविमहाविषम्” । इति वैद्यकम् ॥ (अस्य पर्य्यायो यथा, -- “काकोलो गरलक्ष्वेडो वत्सनाभः प्रदीपनः । शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः” ॥ इति वैद्यकरत्नमाला ॥)
काकोलः, पुं, (कं जलमाकोलति संस्त्यायतीति । आ + कुल संस्त्याने + अण् ।) कुलालः । (कक लौल्ये स्वार्थे णिच् + बाहुलकात् ओल ।) द्रोणकाकः । इति मेदिनी । (यथा, मनुः ५ । १४ । “वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम् । मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्व्वशः” ॥) सर्पः । शूकरभेदः । इति शब्दरत्नावली ॥ काकोली नामख्यातौषधिविशेषः । इति धरणी ॥
📄 मूल मुद्रित पृष्ठ (2-080-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।