🕉️ 19 November 2026, Thursday · 11:49:23 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गौ
gau
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गौ १ संज्ञा स्त्री॰ [सं॰] गाय । गैया । वि॰ दे॰ गो ।
गौ २ पु क्रि॰ अ॰ [हिं॰ गा = गया] दे॰ गया । उ॰—एक बाट गौ सिंघल दोसर लंकल सदीप ।—जायसी ग्रं॰, (गुप्त), पृ॰ २१३ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गौः, [गो] पुं स्त्री, (गच्छतीति । गम् + “गमेर्डोः ।” उणां । २ । ६७ । इति डोः । यद्वा, गच्छत्यनेनेति करणे डोः । वृषस्य यानसाधन- त्वात् स्त्रीगव्या दानेन स्वर्गगमनसाधनत्वाच्च उभयोरपि दानेन स्वर्गगमनत्वाद्वा तथात्वम् । वस्तुतस्त्वयं रूढ एब शब्दः । यदुक्तम् । “रूढा गवादयः प्रोक्ता यौगिकाः पाचकादयः । योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः ॥”) स्वनामख्यातपशुः । गरु इति माषा ॥ पुंगोः पर्य्यायः अनड्वान् इति पदे द्रष्टव्यः ॥ स्त्रीगोः पर्य्यायः । माहेषी २ सौरभेयी ३ उस्रा ४ माता ५ शृङ्गिणी ६ अर्ज्जुनी ७ अघ्न्या ८ रोहिणी ९ । इत्यमरः ॥ माहेन्द्री १० इज्या ११ धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरि- मही १६ अनडुही १७ कल्याणी १८ पावनी १९ गौरी २० सुरभिः २१ महा २२ निलि- नाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६ अधमा २७ । इति शब्दरत्नावली ॥ बहुला २८ मही २९ सरस्वती ३० । इति जटाधरः ॥ उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४ जगती ३५ शर्करी ३६ । इति वेदनिघण्टौ २ अध्यायः ॥ * ॥ (गवां लक्षणादिकं यथा, बृहत्संहितायां ६१ अध्याये । “पराशरः प्राह बृहद्रथाय गोलक्षणं यत् क्रियते ततोऽयम् । मया समासः शुभलक्षणास्ताः सर्व्वास्तथाप्यागमतोऽभिधास्ये ॥ सास्राविलरूक्षाक्ष्यी मूषकनयनाश्च न शुभदा गावः । प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः ॥ दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥ श्यावातिदीर्घजिह्वागुल्फैरतितनुभिरतिबृह- द्भिर्वा । अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥ वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः । स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ॥ मार्ज्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्येष्टः । [] कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य धातकरः ॥ स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च । गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥ श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडा- लाक्षः । विप्राणामपि न शुभं करोति वृषभः परिगृहीतः । ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृश- ग्रीवाः । कातरनयना हीनाः पृष्ठतश्च ते न भारसहाः ॥ मृदुसंहतताम्रोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च । तनुह्रस्वोच्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च ॥ आताम्रसं हतखुरा व्यूढोरस्का बृहत्ककुद- युक्ताः । स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः ॥ तनुभूस्पृग्बालधयो रक्तान्तविलोचना महो- च्छासाः । सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः ॥ वामावर्त्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्त्तैः । शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः ॥ वैदूर्य्यमल्लिका बुद्बुदेक्षणाः स्थूलनेत्रचर्म्माणः । पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्व्वेऽपि भार- वहाः ॥ घ्राणोद्देशे सवलिर्मार्ज्जारमुखः सितश्च दक्षि- णतः । कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः ॥ लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणाक्रोडः । ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥ सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महा- वक्त्रः । हंसो नाम शुभफलो यूथस्य विवर्द्धनः प्रोक्तः ॥ भूस्पृग्वालधिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च । कल्माषश्च स्वामिनमचिरात्कुरुते पतिं लक्ष्म्याः ॥ यो वासितैकचरणो यथेष्टवर्णश्च सोऽपि शस्त- फलः । मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्ती- ऽस्ति ॥” * ॥ गोरीङ्गितभेदेन शुभाशुभमुक्तं यथा, तत्रैव ९२ अध्याये, -- “गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान् । मृत्युं कुर्व्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्तस्करानारुवन्त्यः ॥ अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय । भृशं निरुद्धा य
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गौः" आता है (20)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें