नागकेसरः, पुं, (नागस्येव केसरो यस्य ।) पुष्पवृक्ष- विशेषः । नागेश्वर इति भाषा ॥ तत्पर्य्यायः । चाम्पेयः २ केसरः ३ काञ्चनाह्वयः ४ । इत्यमरः । २ । ४ । ६५ ॥ केशरः ५ नागकेशसरः ६ । इति [] भरतः ॥ किञ्जल्कः ७ नागकिञ्जल्कः ८ नागीयः ९ काञ्चनम् १० सुवर्णम् ११ हेमकिञ्जल्कः १२ रुक्मम् १३ हेम १४ पिञ्जरः १५ फणिकेसरः १६ पन्नगकेसरः १७ । तत्पुष्पगुणाः । अल्पोष्ण- त्वम् । लघुत्वम् । तिक्तत्वम् । कफवस्तिवातामय- कण्ठशीर्षरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “नागपुष्पः स्मृतो नागः केसरो नागकेसरः । चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥ नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् । खुरकण्डुतृषास्वेदच्छर्द्दिहृल्लासनाशनम् ॥ दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥” त्रिजातकं नागकेशरसंयुक्तं चतुर्ज्जातकं भवति यथा, -- “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धिस्त्रिजातकम् । नागकेशरसंयुक्तं चतुर्ज्जातकमुच्यते ॥ तद्द्बयं रोचकं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ॥” इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-848-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।