🕉️ 20 November 2026, Friday · 05:55:11 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उत्पात
utpāta
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
अपशकुन/उपद्रव (2.8.109) अजन्य · उपसर्ग
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
उत्पात संज्ञा पुं॰ [सं॰]
१. कष्ट पहुँचानेवाली आकस्मिक घटना । उपद्रव । आफत ।
२. अशांति । हलचल ।
३. ऊधम । दंगा । शरारत ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उत्-पात m. flying up, jumping up
a spring, jump, MBh.; Car.
rising, arising, Hit.
a sudden event, unexpected appearance
an unusual or startling event boding calamity
a portent, prodigy, phenomenon
any public calamity (as an earthquake, meteor &c.), AV. xix, 9, 7; MBh.; GopBr.; Gaut.; Ragh.; Suśr.; Pañcat. &c.
a disease of the external ear (erroneously for उत्-पाट above, BRD.)
📄 मूल मुद्रित पृष्ठ (180,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उत्पातः 1 Flying up, a spring, jump; एकोत्पातेन at one jump. --2 Rebounding, rising up (fig. also); करनिहतकंदुकसमाः पातोत्पाता मनुष्याणां H. 1. v. l. --3 A portent, any portentous or unusual phenomenon boding calamity; उत्पातेन ज्ञापिते च Vārt.; ˚जलधरः K. 111, 287; Ve. 1. 22; सापि मुकुमारसुभगेत्युत्पातपरंपरा केयं K. P. 10; Mv. 1. 37. --4 Any public calamity (as an eclipse, earthquake &c.); ˚केतु K. 5; ˚धूमलेखा Ketu; Māl. 9. 48. --Comp. --पवनः, --वातः, --वातालिः portentous or violent wind, whirlwind, a hurricane; R. 15. 23; Mv. 1.
📄 मूल मुद्रित पृष्ठ (0297-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उत्पात पु० उद् + पत--घञ् । १ ऊर्द्ध्वपतने । उद् + पत--ण । अकस्मादागते प्राणिनां शुभाशुभसूचके दैवनिमित्ते २ भूक- म्पादौ ३ सुश्रुतोक्ते विस्राव्यपाल्यामयभेदे च । “पाल्यामयास्तु विस्राव्या इत्युक्ताः प्राग्निबोध तान् । परि- पोटस्तथोत्पात उन्मन्थो दुःखवर्द्धनः । पञ्चमः परिलेही च कर्णपाल्या गदाः स्मृताः । सौकुमार्य्याच्चिरोत्सृष्टः सहसाभिप्रवर्द्धिते । कर्णशोफो भवेत्पाल्यां सरुजः परि- पोटवान् । कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः । गुर्व्वाभरणसंयोगात्ताडनोद्वर्षणादपि । शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः । रक्तो वा रक्तपित्ताम्यामु- त्पातः सगदो मतः । बलाद्वर्द्धयतः कर्णं पाल्यां वायुः प्रकुच्यति । गृहीत्वा सकफं कुर्य्याच्छोफं तद्वर्णवेदनम् । उन्मन्थकः सकण्डूको विकारः कफवातजः । वर्द्धमाने यदा कर्णे कण्डूदाहरुगन्वितः । शोफो मवति पाकश्च त्वक्स्थोऽसौ दुःखवर्द्धनः । कफासृक्कृमयः कुर्य्युः सर्षपाभा विकारिणीः । स्राविणीः पीडकाः पाल्यां कण्डूदाहरुग- न्विताः । कफासृक्कृमिसम्भूतः सविसर्पान्वितस्ततः । लिह्यात्सशष्कुलीं पालीं परिलेहीति स स्मृतः” । शुभाशुभसूचकोत्पातश्च दिव्यान्तरीक्षभौमभेदात् त्रि- विधः । स च वृ० सं० दर्शितो यथा “यानत्रेरुत्- पातान् गर्गः प्रोवाच तानहं वक्ष्ये । तेषां सङ्क्षेपो- ऽयं प्रकृतेरन्यत्वमुत्पातः । अपचारेण नराणामुप- सर्गः पापसञ्चयाद्भवति । संसूचयन्ति दिव्यान्तरिक्षभौ- मास्तदुत्पाताः । भनुजानामपचारादपरक्ता देवताः । सृज- न्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत । दिव्यं ग्रहर्क्षवैकृतम् उल्कानिर्घातपवनपरिवेषाः । गन्धर्व- पुरपुरन्दरचापादि यदान्तरिक्षं तत् । भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति । नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके । दिव्यमपि शममुपैति प्रमूत- कनकान्नगोमहीदानैः । रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च । आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोकेषु । पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः । अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि । लिङ्गा- [] र्चायतनानां नाशाय नरेशदेशानाम् । दैवतयात्राशकटा- क्षचक्रयुगकेतुभङ्कपतनानि । सम्पर्य्यासनसादनसङ्गाश्च न देशनृपशुभदाः । ऋषिधर्म्मपितृब्रह्मप्रोद्भूतं द्विजाती- नाम् । यद्रद्रलोकपालोद्भवं पशूनामनिष्टं तत् । पुरु सितशनैश्चरोत्थं पुरोधसां, विष्णुजं च लोकानाम् । स्कन्द- विशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् । वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे । धातरि सविश्व- कर्म्मणि लोकाभावाय निर्दिष्टम् । देवकुमारकुमारीवनिता- प्रेष्येषु वैकृतं यत् स्यात् । तन्नरपतेः कुमारककुमारि कास्त्रीपरिजनानाम् । रक्षःपिशाचगुह्यकनागानामेत- देव निर्देश्यम् । मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः । बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोवितः स्नातः । स्नानकुसुनानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् । मधुपर्केण पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत् । स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः । इति विबुधविकारे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च । विधिवदवनिपालैर्य्यैः प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः” देवप्रतिमावैकृतम् । “राष्ट्रे यस्या- नग्निः प्रदीप्यते दीप्यते च नेन्धनवान् । मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया । जलमांसार्द्रज्वलने नृपतिबधः प्रहरणे रणो रौद्रः । सैन्यग्रामपुरुषे च नाशो वह्नेर्भयं कुरुते । प्रासादभवनतोरणकेत्वादिष्व- नलेन दाधेषु । नडिता वा षण्मासात् परचक्रस्यागमो नियमात् । धूमोऽनग
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
उत्पातः, पुं, (उत् + पत् + घञ् ।) उत्पतति अक- स्मादायाति यः । प्राणिनां शुभाशुभसूचकमहा- भूतविकारभूकम्पादिः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । अजन्यम् २ उपसर्गः ३ । इत्यमरः ॥ सत्रिविधः । दिव्यः १ यथा अपर्ब्बणि चन्द्रादित्य- ग्रासादिः । आन्तरीक्ष्यः २ यथा, उल्कापात- निर्घातादिः । भौमः ३ यथा भूकम्पादिः । इति दीपिकाचण्डीटीके ॥ (उत्पातानां लक्षणादिकं ऋतौ स्वभावप्रभवात् अदोषत्वञ्चोक्तं वृहत्संहि- तायां ४६ अध्याये । यथा, -- “नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः । उत्पातानां प्रभवः स्वर्तुभवश्चाप्यदोषाय ॥ ८२ ॥ येच न दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान् । ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः ॥ ८३ ॥ वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः । परिवेशरजोधूमरक्तार्कास्तमनोदयाः ॥ ८४ ॥ द्रमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः । गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ८५ ॥ तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमवेण्वनिलाहतम् ॥ ८६ ॥ रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ८७ ॥ शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम् । कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ८८ ॥ सरोनद्युदपानानां वृद्ध्यूर्द्ध्वतरणप्लवाः । [] सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ८९ ॥ दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥ ९० ॥ गीतवादित्रनिर्घोषा वनपर्ब्बतसानुषु । शस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥ ९१ ॥ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्वानां दर्शनं वागमानुषी ॥ ९२ ॥ दिशो धूमान्धकाराश्च सनभोवनपर्ब्बताः । उच्चैः सूर्य्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ९३ ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् । कृष्णाञ्जननिभाकाशं तारोल्कापातपिञ्जरम् ॥ ९४ ॥ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । पत्राङ्कुरलतानाञ्च विकाराः शिशरे शुभाः ॥ ९५ ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वत्ता शुभप्रदाः । ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः ॥ ९६ ॥ उन्मत्तानाञ्च या गाथाः शिशूनां भाषितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ९७ ॥ पूर्व्वं चरति देवेषु पश्चात् गच्छति मानुषान् । नचोदिता वाग्वदति सत्या ह्येषा सरस्वती ॥ ९८ ॥ उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्रवल्लभश्च । एतत्तन्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी” ॥ ९९ ॥ उत्पतनं । उल्लम्फः । यथा, रामायणे ५ । ६८ । २३ । “एकोत्पातेन ते लङ्कामेष्यन्ति हरिपुङ्गवाः” । उन्नतिः । वृद्धिः । यथा, हितोपदेशे । “करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणां” । उत्पत्तिः । यथा, महाभारते, वनपर्ब्बणि । “बुद्धिरात्मानुगातीव उत्पातेन विधीयते । तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्” ॥)
📄 मूल मुद्रित पृष्ठ (1-227-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "उत्पात" आता है (19)
उपद्रव उत्पात । आकस्मिक बाधा । हलचल । विप्लवअभिप्लव उपद्रव । उत्पात । फसादउल्काचक्र उत्पात । विघ्नऊधम उपद्रव । उत्पात । धूम । हुल्लड़ । हल्ला गुल्ला । शोर गुल । दंगा फसाद ।…धमार उछलकूद । उपद्रव । उत्पात । धमाचौकड़ीधमगजर उत्पात । ऊधम । उपद्रवधमारो उपद्रवी । उत्पातीझटापटा पु संज्ञा स्त्री॰ हलचल । उत्पात । उपद्रवदिवदाह उत्पात । क्रांति । आकाशदाहधूमकधूया उछल कूद और हल्ला गुल्ला । उपद्रव । उत्पात । शोरगुल । क्रि॰ प्र॰—मचना ।…उपाधि ओर वस्तु को और बतलाने का छल । कपटउपप्लव बाढ़अनर्थ विरुद्ध अर्थ । अयुक्त अर्थ । उलटा मतलबउल्कापात तारा टूटना । लूक गिरनाचहर पु † संज्ञा स्त्री॰अपतई पु संज्ञा स्त्री॰दुंद दो मनुष्यों के बीच होनेवाला युद्ध या झगड़ाधमाधम लगातार कई बार 'धम' 'धम' शब्द के साथ । लगातार कई घमाकों के साथ । लगातार…हुलहुला विलक्षण बात । अद्भुत बात
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें