🕉️ 19 November 2026, Thursday · 11:36:59 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ऋतु
ṛtu
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
मार्गशीर्ष से आरम्भ करके दो-दो मासों की एक 'ऋतु', और तीन ऋतुओं का एक ' (1.4.13) अयन
ये छह ऋतुएँ ('ऋतु' शब्द पुंलिङ्ग) मार्गशीर्ष आदि दो-दो मासों के जोड़ों (1.4.21)
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ऋतु संज्ञा पुं॰ [सं॰]
१. प्राकृतिक अवस्थाओं के अनुसार वर्ष के दो दो महीनों के छह विभाग । मौसम । उ॰—सिगरी ऋतु शौभित शुभ्र जहीं ।—राम चं॰, पृ॰ ८० । विशेष—ऋतुएँ छह हैं—(क) वसंत (चैत और वैसाख), (ख) ग्रीष्म (जेठे और आषाढ़), (ग) वर्षा (सावन और भादों), (घ) शरद (क्वार और कार्तिक), (च) हेमंत (अगहन और पूस), (छ) शिशिर (माघ और फागुन) ।
२. रजोदर्शन के उपरांत वह काल जिसमें स्त्रियाँ गर्भधारण के योग्य होती हैं ।
३. उपयुक्त समय या काल (को॰) ।
४. समुचित या सुनिश्चित व्यवस्था (को॰) ।
५. विष्णु (को॰) ।
६. मास । महीना (को॰) ।
७. दीप्ति । प्रकाश (को॰) ।
८. छह की संख्या (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ऋतु (उस्), m. (Uṇ. i, 72) any settled point of time, fixed time, time appointed for any action (esp. for sacrifices and other regular worship), right or fit time, RV.; AV.; VS.
an epoch, period (esp. a division or part of the year), season (the number of the divisions of the year is in ancient times, three, five, six, seven, twelve, thirteen, and twenty-four; in later time six seasons are enumerated, viz. Vasanta, ‘spring’; Grīṣma, ‘the hot season’; Varṣās (f. pl. nom.), ‘the rainy season’ Śarad, ‘autumn’; Hemanta, ‘winter’; and Śiśira, ‘the cool season’; the seasons are not unfrequently personified, addressed in Mantras, and worshipped by libations), RV.; AV.; VS. &c., MBh.; Mn. &c.
symbolical expression for the number six, VarBṛS.; Sūryas. &c.
the menstrual discharge (in women), the time after the courses (favourable for procreation; according to Bhpr. sixteen days after their appearance), Suśr.; MBh.; Mn. &c.
sexual union at the above time, Mn. ix, 93; MBh.
fixed order, order, rule [BRD.], RV. i, 162, 19
light, splendour, L.
a particular mineral, L.
N. of a Ṛṣi
of the twelfth Manu.
📄 मूल मुद्रित पृष्ठ (224,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ऋतुः [ऋ-तु-किच्च Uṇ. 1. 71] 1 A season, period of the year, commonly reckoned to be six; शिशिरश्च वसंतश्च ग्रीष्मो वर्षाः शरद्धिमः; sometimes only five; शिशिर and हिम or हेमंत being counted together; cf. पंचर्तवो हेमंतशिशिरयोः समासेन Ait. Br. --2 An epoch, a period any fixed or appointed time. --3 Menstruation, courses, menstrual discharge. --4 A period favourable for conception; वरमृतुषु नैवाभिगमनं Pt. 1; ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः Ms. 3. 46, 9. 70; Y. 1. 11, 79. --5 Any fit season or right time. --6 Fixed order or rule. --7 Light, splendour. --8 A month. --9 N. of Viṣṇu. --10 A symbolical expression for the number ‘six.’ --11 A kind of collyrium. --Comp. --अंतः {1} the close of a season. {2} termination of menstruation. --कालः, समयः, -वेला {1} the time of menstruation, time favourable for conception, i. e. 16 nights from menstrual discharge; see ऋतु above. {2} the duration of a season. --गणः the seasons taken collectively. --गामिन् a. having intercourse with a wife (at the time fit for conception, i. e. after the period of menstruation). --ग्रहः a libation offered to the seasons, a kind of sacrifice. --धामन् m. N. of Viṣṇu. --पतिः {1} the lord of seasons, i. e. the spring. {2} N. of Agni. --पर्णः N. of a king of Ayodhyā; son of Ayutāyu, a descendant of Ikṣvāku. [Nala, king of Niṣadha, entered into his service after he had lost his kingdom and suffered very great adversity. He was ‘profoundly skilled in dice’; and he exchanged with Nala this skill for his skill in horsemanship; [] and by virtue of it the king succeeded in taking Nala to Kuṇḍinapura before Damayantī had put into execution her resolve of taking a second husband]. --पर्यायः, --वृत्तिः the revolution of the seasons. --पाः m. N. of Indra. --पात्रं the cup in which the libation is offered. --प्राप्त a. fertile, fruitful. --मुखं the beginning or first day of a season. --याजः a sacrifice offered to the seasons. --राजः the spring. --लिंगं {1} a characteristic or sign of the season (as the blossom of the mango tree in spring). {2} a symptom of menstruation. --ष्ठा --(स्था) a. fixed at the proper seasons. --संहारः ‘collection of the seasons,’ N. of Kālidāsa's work on the six seasons. --संधिः {1} the junction of two seasons. {2} the last day in the bright fort-night (पौर्णमासी) and in the dark one (दर्श). --सात्म्यं diet &c. suited to the season. --स्तोमः a kind of sacrifice. --स्नाता a woman who has bathed after menstruation and who is, therefore, fit for sexual intercourse; धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् R. 1. 76. --स्नानं bathing after menstruation.
📄 मूल मुद्रित पृष्ठ (0349-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऋतु पु० ऋ--तु किच्च । शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमः । माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादिमे इत्युक्ते १ कालभेदे । “ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः” इति मनूक्ते स्त्रीणां २ शोणितदर्शनयोग्ये गर्भधारणसमर्थे च काले “ऋतौ भार्य्यामुपेयात्” श्रुतिः “सकृत्सकुद्बृतावृतौ, ऋतुकालभिगामी स्यात्” मनुः । ऋतुरस्य प्राप्तः अण् । आर्त्तव स्त्रीरजसि न० आर्त्तवशब्दे ८०८ पृष्ठे विवृतिः । ३ दीप्तौ ४ मासे च । मासद्वयात्मक ऋतुश्च सौरश्चान्द्रश्च यथा काल० मा० “ऋतुशब्दस्य ऋ गतावित्यस्माद्धातोर्निष्पन्नः । इयर्त्ति गच्छति अशोक- पुष्पविकासान् साधारणलिङ्गमिति वसन्तादिकालविशेष ऋतुः । स च षद्धिधः “षड्वा ऋतव इति” श्रुतेः । यत्त “द्वादश मासाः पञ्चर्त्तव” इति श्रुतं तत्र हेमन्तशिशिरयो- रेकीकरणं विवक्षितं याजमानेषु पञ्चप्रयाजानुमन्त्रणमन्त्रेषु हेमन्तशिशिरयोरेकस्मिन्नेकेनैव पदेनैकीकरणमित्युक्तं तथा हि “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि वर्षा ऋतूनां प्रीणामि शरदमृतूनां प्रीणामीति” चतुर्णां प्रया- जानां पृथक् पृथगनुमन्त्रणमन्त्रानाम्नाय पञ्चमप्रयाजस्यानु मन्त्रणे मन्त्र एवं श्रूयते “हेमन्तशिशिरावृतूनां प्रीणा- मीति” एतदेवाभिप्रेत्य बह्वृचब्राह्मणे द्वादश मासाः पञ्च- र्त्तवो हेमन्तशिशिरयोः समासेनेति” यत्वनयोर्मन्त्रब्राह्म- णयोर्ष्ट्विवचनं ततस्वरूपद्वैविध्याभिप्रायेण शिशिरस्य षष्ठ- स्यान्तिमत्वात्तेनानुमन्त्रणीयस्य षष्ठप्रयाजस्याभावाच्च तस्यैव पञ्चमे हेमन्तेऽन्तर्भावोन्याय्यः । अतएव प्रयाजब्राह्मणे “वसन्तमेवर्तूनामवरुन्ध” इत्यादिना चतुरः प्रयाजान् प्रशस्य पञ्चमे प्रयाजे केवलेन हेमन्तेन प्रशंसा “स्वाहाकारं य- जति हेमन्तमेवावरुन्धे” इति । अस्तु नाम यथा तथा प- ञ्चसंख्या तथापि स्वरूपेण षोढा भिद्यते द्वादमासात्मके संवत्सरे एकैकस्य ऋतोर्मासद्वयात्मकत्वे सत्येकादश द्वादश- मासयोर्वर्ज यितुमशकत्वात् षष्ठर्तौ पृथगनुष्ठानविधा- नाच्च तच्चोपरिष्टदुदाहरिष्यामः । मासद्वयात्मकत्वं चाग्निचयने ऋतव्येष्टकोपधानब्राह्मणे श्रूयते । “द्वन्द्वमु- पदधाति तस्मात् द्वन्द्वमृतव” इति । एकस्मिन् ऋतौ कयो- र्मासयोर्द्वन्द्वं ग्रहीतव्यमिति चेत् वसन्ताद्यृतुक्रमेण चैत्र- मासादि द्वन्द्वभिति ब्रूमः । तच्चेष्टकोपधानमन्त्रेषु श्रू- यते “मधुश्च माधवश्च वासन्तिकावृतू” “शुक्रश्च शुचिश्च ग्रै- ष्मावृतू” “नभश्च नभस्यश्च वार्षिकावृतू” इषश्चोर्जश्च “शार- दावृतू” “सहश्च सहस्यश्च हैमन्तिकावृतू” “तपश्च तपस्यश्च [] शिशिरावृतू” एषु च वाक्येषु ऋतू इति द्विवचनं मासाभि- प्रायम् अन्यथा षडृतव इति श्रूयमाणा षट्संख्या बाध्येत । अवयवावयविनोर्वसन्तादेरेकात्मत्वं सौत्रामणीयहौत्रमन्त्रेषु एकवचनेन व्यवहारादवगन्तव्यं “वसन्तेन ऋतुना देवाः, ग्रीष्मेण ऋतुना देवा” इत्यादि हि तत्र पठ्यते तथैवाधान- ब्राह्मणे श्रूयते “वसन्तो वै व्राह्मणस्यर्त्तुः, ग्रीष्मो वै राज- न्यस्यर्त्तुः, शरद्वैश्यस्यर्त्तुरिति” यद्यप्येते षडृतवो घटीयन्त्र- वन्नैरन्तर्य्येण प्रवर्त्तन्ते तथापि संवत्सरोपक्रमरूपत्वेन वसन्तस्य प्राथम्यं द्रष्टव्यम् एतदेवाभिप्रेत्य श्रूयते “मुखं वा एतदृतूनां वसन्त” इति पूर्वोदाहृतेषु मन्त्रब्राह्मणेषु सर्वत्र वसन्तोपक्रमणाच्च वसन्तस्य प्राथम्यं ते च वसन्ताद्यृ- तवो द्विविधाः चान्द्राः सौराश्च । चैत्रादयश्चान्द्राः तच्चो- दाहृतं “मधुश्च माधवश्चेत्यादिना” न च तत्र चैत्रादयो- नोक्ता इति शङ्कनीयं मध्वादिशब्दानां चैत्रादिपर्याय- त्वात् । अत एबाहुः “चैत्रोमासी मधुःप्रोक्तो वै
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऋतुः, पुं, (ऋ + “अर्त्तेश्च तुः” । इति उणादिसूत्रेण १ । ७२ । तुः चकारात् कित् च ।) कालविशेषः । स तु षड्विधः यथा । मार्गपौषौ हिमः १ माघ- फाल्गुनौ शिशिरः २ चैत्रवैशाखौ वसन्तः ३ ज्यैष्ठाषाढौ ग्रीष्मः ४ श्रावणभाद्रौ वर्षाः ५ आ- श्विनकार्त्तिकौ शरत् ६ । इत्यमरः ॥ स त्रिविधो- ऽपि । कार्त्तिकाग्रहायणपौषमाघाः शीतः १ फाल्गुनचैत्रवैशाखज्यैष्ठाः ग्रीष्मः २ आषाढश्रावण- भाद्राश्विनाः वर्षाः ३ । द्विविधोऽपि । कार्त्तिका- दिषण्मासाः शीतः १ वैशाखादिषण्मासाः ग्रीष्मः २ ॥ इति स्मृतिः ॥ * ॥ (यदुक्तम् । “मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः” । यत्र तु “द्वादश मासाः पञ्चर्त्तवः” इति श्रुतं तत्र [] हेमन्तशिशिरयोरेकत्रीकरणं विवक्षितम् ॥ “चयकोपसमा यस्मिन् दोषाणां सम्भवन्ति हि । ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात् ॥ ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृड्मिथुनकर्कटौ । सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् ॥ धनुर्ग्राहौ च हेमन्तौ वसन्तः कुम्भमीनयोः” । मेषवृषौ रविणा संक्रान्तौ । एवं मिथुनकर्कटा- वित्यादि । अन्ये तु । “शिशिरः पुष्पसमयो ग्रीष्मो वर्षाशरद्धिमाः । माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमभागे । “वर्षाः शरच्च हेमन्तः शिशिरश्च वसन्तकः । ग्रीष्मश्चेति क्रमादेते ऋतवः षट् प्रकीर्त्तिताः ॥ पृथक् पृथक प्रवक्ष्यामि रवेर्गतिविशेषतः” । इति प्रथमस्थाने चतुर्थेऽध्याये हारीतेनोक्तम् ॥ “मासैर्द्विसङ्ख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः । शिशिरोऽथ वसन्तश्च ग्रीष्मवर्षा शरद्धिमाः” ॥ इति सूत्रस्थ ने तृतीयेऽध्याये वाभटेनोक्तम् ॥ “इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्” । इति सूत्रस्थाने षष्ठोऽध्यायः । “तत्र खलुतावत् षोढा प्रविभज्य कार्य्यमुपदेक्ष्यते । हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रयः ऋतवो भवन्ति । तेषामन्तरेष्वितरे साधारण- लक्षणास्त्रय ऋतवः प्रावृट्शरद्वसन्ता इति । प्रावृडिति प्रथमः प्रवृष्टेः कालस्तस्यानुबन्धो वर्षाः । एवमेते संशोधनमधिकृत्य षड् विभज्यन्ते ऋतवः” । इति च विमानस्थानेऽष्टमेऽध्याये चरकेणोक्तम् । “तत्र माघादयो द्वादशमासा द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति । ते शिशिर-वसन्त-ग्रीष्म- वर्षा-शरद्धेमन्ताः । तेषां तपस्तपस्यौ शिशिरः । मधुमाधवौ वसन्तः । शुचिशुक्रौ ग्रीष्मः । नभो- नभस्यौ वर्षाः । इषर्जौ शरत् । सह सहस्यौ हेमन्त इति ॥ तत्र ते शीतोष्णवर्ष्लक्षणाश्च- न्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो- दक्षिणमुत्तरञ्च” । “इह तु वर्षा-शरद्धेमन्त-वसन्त-ग्रीष्म-प्रावृषः षडृ- तवो भवन्ति दोषोपचय-प्रकोयोपशम-निमित्तम् । ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः । तद्- यथा । भाद्रपदाश्वयुजौ वर्षाः । कार्त्तिकमार्गशीर्षौ शरत् । पौषमाघौ हेमन्तः । फाल्गुन-चैत्रौ वसन्तः । वैशाख-ज्यैष्ठौ ग्रीष्मः । आषाढ-श्रावणौ प्रावृडिति” । इति सूत्रस्थाने ६ अध्याये सुश्रुते- नोक्तम् ॥) स्त्रीकुसुमम् । इति विश्वमेदिन्यौ ॥ तत्पर्य्यायः । रजः १ पुष्पम् २ आर्त्तव्यम् ३ । इत्यमरः ॥ यथाह मनुः । ३ । ४५-४९ । “ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा । पर्ब्बवर्ज्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । चतुर्भिरितरैः सार्द्धमहोमिः सद्विगर्हितैः ॥ तासामाद्याश्चतस्रस्तु निन्दितकादशी च या । [] त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ युम्मासु पुत्त्रा जायन्ते स्त्रियोऽयुम्मासु रात्रिषु । तस्मात् युग्मासु पत्त्रार्थी संविशेदार्त्तवे स्त्रियम् ॥ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "ऋतु" आता है (7)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें