🕉️ 19 November 2026, Thursday · 03:13:42 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्षत
kṣata
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्षत १ वि॰ [सं॰] जिसे क्षति या आघात पहुँचा हो । जो किसी प्रकार टूटा फूटा या चीरी फाडा हो ।
क्षत २ संज्ञा पुं॰
१. घाव । जख्म ।
२. ब्रण । फोड़ा ।
३. एक प्रकार का फोड़ा जो गिरने, दौड़ने या किसी प्रकार का क्रुर कर्म करने से हृदय में हों जाता है । इसमें रोगी को ज्वर आता है और खाँसने से मुँह से रक्त निकलता है ।
४. मारना । काटना ।
५. क्षति या आघात पहुँचाना ।
६. भय । खतरा । डर (को॰) ।
७. दुःख । कष्ट (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्षत क्षत, क्षति, क्षतिन्. See ib.
क्षत mfn. wounded, hurt, injured, ŚBr. vi; Yājñ. &c.
broken, torn, rent, destroyed, impaired, MBh. &c.
diminished, trodden or broken down
क्षत (अम्), n. a hurt, wound, sore, contusion, MBh.; Suśr. &c.
rupture or ulcer of the respiratory organs
N. of the sixth astrological mansion, VarBṛ. i, 16.
📄 मूल मुद्रित पृष्ठ (325,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्षत p. p. [क्षण्-क्त] 1 Wounded, hurt, injured, bitten, torn, rent, broken down &c.; see क्षण्; रक्तप्रसाधितभुवः क्षतविग्रहाश्च Ve. 1. 7; Ku. 4. 6; R. 1. 28; 2. 56; 3. 53. --2 Diminished; trodden. --तं 1 Scratching, a scratch. --2 A wound, hurt, injury; क्षते प्रहारा निपतंत्यभीक्ष्णं Pt. 2. 178; क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनं U. 4. 7; क्षारं क्षते प्रक्षिपन् Mk. 5. 18; नख˚ Ku. 3. 29. --3 Danger, destruction, peril; क्षतात् किल त्रायत इत्युदग्रः R. 2. 53. --Comp. --अरि a. victorious. --उदरं dysentery. --कासः a cough produced by injury. --जं {1} blood; स छिन्नमूलः क्षतजेन रेणुः R. 7. 43; Ve. 2. 27. {2} pus, matter. --योनिः f. a violated woman, a woman who is no longer a virgin. --विक्षत a. mangled, covered with cuts and wounds. --वृत्तिः f. destitution, being deprived of any means of support. --व्रतः a student who has violated his vow or religious engagements. --हरं aloewood.
📄 मूल मुद्रित पृष्ठ (0434-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्षत त्रि० क्षण--क्त । १ विदारिते २ पीडिते ३ घर्षिते च । “रवोरवष्टम्भमयेन पत्रिणा हृदि क्षतोगोत्रभिदप्यमर्षणः” रघुः । ४ क्षतियुक्ते “रुद्राणामपमूर्द्धानः क्षतहुङ्कार शंसिनः” कुमा० “क्षततिमिरेषु दिग्बधूमुखेषु” भट्टिः क्ष- तयोन्या अपि स्त्रियाः” “कन्यैवाक्षतयोनिर्या पाणिग्र- हणदूषिता” इति च नारदः । विदारणञ्च शस्त्रादिभि- रवयवविमागः, “अङ्गुलीवोरगक्षता” रघुः । सर्पेण दशनेनाङ्गुल्याविदारणात्तथात्वम् । भावे क्त । ५ विदारणे न० “नखक्षतानीव वनस्थलीनाम्” कुमा० “अनलङ्कृतोऽपि सुन्दर! हरसि मनोमे यतः प्रसभम् किं पुनरलङ्कृतस्त्वं नखरक्षतैस्तस्याः” सा० द० । ६ घर्षणे “क्षतोज्ज्वलाङ्गुष्ठनखां- शुभिन्नया” माघः । उपचारात् तत्कार्य्ये ७ दुःखादौ “क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दोभुवनेषु रूढः” रघः उपचारात् (घा) इति प्रसिद्धे स्रवद्रक्त [] पूयादौ ८ ब्रणे हेमच० “प्रकुपितास्तु दोषामेढ्रममिपन्ना- मांसशोणिते प्रदूष्य कण्डूं जनयन्ति तत्र कण्डूयनात् क्षतं समपजायते क्षते दुष्टमांसजाः प्ररोहाः पिच्छिल रुधिरस्राविणो जायन्ते कूर्चकिणोऽभ्यन्तरमुपरिष्टाद्वा” सुश्रु० “यस्तु क्षतेषूपयुज्यते स भूयःकल्क इति संज्ञां ल भते” सुश्रु० व्रणशब्दे विवृतिः क्षतनिमित्तमरणेऽशौचभेदमाह शु० त० व्याघ्रः “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा । आ सप्ताहात्त्रिरात्र स्यात् दशरात्रमतः परम् । शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते । अशौचं प्राकृतं तत्र सर्व्ववर्ण्णेषु नित्य- शः” । “अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारिभाधि- कशस्त्रघातपरमपि । यथा देवीपु० “पक्षिमत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः । पतनानशनप्रायैर्वज्राग्निविषबन्ध- नैः । मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः” । अ- न्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिनग्रह- णेऽनध्यवसायः स्यात् । न च शास्त्रीये व्यवहासेऽन्तरङ्ग- त्वेन पारिभाषिकग्रहणस्यैव युक्तत्वमिति वाच्यम् श्राद्धे पारिभाषिकापारिभाषिकशस्त्रघातग्रहणवदत्रापि तथा यु- क्तत्वात् पारिभापिकत्वादेव न प्रकरणनियमः” शु० त०
📄 मूल मुद्रित पृष्ठ (2356-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्षतं, क्ली, (क्षण्यते वध्यतेऽनेन । क्षण + करणे क्तः ।) स्रवद्रक्तपूयादि । घा इति भाषा । तत्पर्य्यायः । व्रणः २ अरुः ३ ईर्म्मम् ४ क्षणनुः ५ । इति हेमचन्द्रः ॥ तद्वति त्रि ॥ * ॥ क्षतेन मृतस्याशौचं यथा, व्याघ्रः । “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा । आसप्ताहात् त्रिरात्रं स्याद्दशरात्रमतः परम् ॥ शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते । अशौचं प्राकृतं तत्र सर्व्ववर्णेषु नित्यशः ॥ अत्र अस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारि- भाषिकशस्त्राघातपरमपि । अन्यथा क्षतं विना पतनादिभिर्विलम्बमृतानां दिनग्रहणेऽनध्यवसायः स्यात्” । इति शुद्धितत्त्वम् ॥ * ॥ चन्द्रग्रहणादौ क्षतदोषाभावो यथा, -- पुलस्त्यः । “चन्द्रसूर्य्यग्रहे चैव मृतानां पिण्डकर्म्मसु । महातीर्थे च संप्राप्ते क्षतदोषो न विद्यते” ॥ अन्यत्र तु देवलः । “सव्रणः सूतकी सूयी मत्तोन्मत्तरजस्वलाः । मृतबन्धुरवन्धुश्च वर्ज्यान्यष्टौ स्वकालतः” ॥ इत्यनेन वर्ज्यतामाह । अशुचित्वमप्याह । “दन्तलग्नमसंहार्य्यं लेपं मन्येत दन्तवत् । न तत्र बहुशः कुर्य्यात् यत्नमुद्धरणे पुनः ॥ भवेदशौचमत्यर्थं तृणवेधात् व्रणे कृते” ॥ इति प्रायश्चित्ततत्त्वम् ॥ (विदारणम् । यथा, कुमारे । ३ । २९ । “नखक्षतानीव वनस्थलीनाम्” ॥ विनाशः । यथा, रघुः । २ । ५३ । [] “क्षतात् किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः” ॥ त्रि, ताडितः । विद्धः । यथा, रघुः । ३ । ५३ । “रघोरवष्टम्भमयेनं पत्रिणा हृदि क्षतो गोत्रभिदोऽप्यमर्षणः” ॥ क्षतियुक्तः । यथा, कुमारे । २ । २६ । “रुद्राणामपि मूर्द्धानः क्षतहूङ्कारशंसिनः” ॥ (रोगविशेषः । तस्य सकारणसम्प्राप्तिलक्षणानि चिकित्सितञ्च यथा, -- “धनुषायस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् । पततो विषमोच्चेभ्यो युध्यमानस्य चाधिकैः ॥ वृषं हयं वा धावन्तं दम्यं वान्यं निगृह्लतः । शिलाकाष्ठाश्मनिर्धातान् क्षिपतो निघ्नतः परान् ॥ अधीयानस्य वात्युच्चैर्दूरं वा व्रजतो द्रुतम् । महानदीं वा तरतो गजैर्वा सह धावतः ॥ सहसोत्पततो दूरं तूर्णञ्चातिप्रणृत्यतः । तथान्यैः कर्म्मभिः क्रूरैर्भृशमभ्याहतस्य वा ॥ विक्षते वक्षसि व्याधिर्बलवान् समुदीर्य्यते । स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ॥ उरो विरुज्यते तस्य भिद्यतेऽर्थ बिदह्यते । प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते ॥ क्रमाद्वीर्य्यं बलं वर्णो रुचिरग्निश्च हीयते । ज्वरो व्यथा मनोदैन्यं विङ्भेदाग्निवधावपि ॥ दुष्टः श्यावः सदुर्गन्धः पीतो विग्रथितो बहुः कासमानस्य च श्लेष्मा सरक्तः संप्रवर्त्तते ॥ सक्षतः क्षीयतेऽत्यर्थं तथाशुक्रौजसोः क्षयात्” ॥ पूर्व्वरूपं यथा, -- “अव्यक्तं लक्षणं तस्य पूर्व्वरूपमिति स्मृतम् । उरोरुक् शोणितच्छर्द्दिः कासो वैशेषिकः क्षते” ॥ अस्यासाध्यलक्षणादिकं यथा, -- “अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः । गते संवत्सरे याप्यः सर्व्वलिङ्गन्तु वर्ज्जयेत्” ॥ चिकित्सास्य यथा । “उरोमत्वाक्षतं लाक्षां पयसा मधुसंयुताम् । सद्य एव पिबेज्जीर्णे पयसाद्यात् सशर्कराम् ॥ पार्श्ववस्तिरुजश्वाल्पपित्ताग्निस्तां सुरायुताम् । भिन्नविट्कः समुस्तातिविधां पाठां सवत्सकाम् ॥ लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम् । त्वक्क्षीरी सम्मितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ इक्ष्वालिकविसग्रन्थिपद्मकेशरचन्दनैः । शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षतो ॥ यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम् । ज्वरदाहे सिताक्षौद्रशक्तून् वा पयसा पिबेत् ॥ कासी पर्व्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः । मधूकमधुकद्राक्षा त्वक्क्षीरापिप्पलीबलाः” ॥ “रक्तेऽतिवृत्ते दक्षान्तं यूषैस्तोयेन वा
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "क्षत" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें