ग(र्व्व)र्ब्ब, त् क ङ दर्पे । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-आत्मं-अकं-सेट् ।) दर्पोऽहङ्कारः । ङ, गर्व्वयते गर्व्वापयते धनैर्नीचः । इति दुर्गा- दासः ॥
ग(र्व्व)र्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) गर्व्वति । इति दुर्गादासः ॥
ग(र्व्व)र्ब्बः, पुं, (गर्व्व + भावे अप् । यद्वा, गिरति मदमिति । गॄ निगरणे + “कॄगॄशॄदॄभ्यो वः ।” उणां । १ । १५५ । इति वः ।) अहङ्कारः । दर्पार्थादन्तगर्व्वधातोर्भावेऽल्प्रत्ययः ॥ इति मुग्ध- बोधम् ॥ (यथा, रामायणे । २ । ३१ । २० । “यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् । प्राप्य दुर्मनसा वीर ! गर्ब्बे(र्व्व)ण च विशेषतः ॥”)
गर्व्व, मदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) मद इह अहङ्कारः । नीचो गर्व्वति सम्पदा । इति दुर्गादासः ॥
गर्व्वः, पुं, (गर्व्व मदे + भावे घञ् । यद्वा, गिरति मदमत्तस्यात्मानमुद्गिरतीव इति । गॄ निग- रणे + “कॄगॄशॄदॄभ्यो वः ।” उणां । १ । १५५ । इति वः ।) अहङ्कारः । इत्यमरः । १ । ७ । २२ ॥ (यथा, रामायणे । २ । ३१ । २० । “यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् । प्राप्य दुर्म्मनसा वीर ! गर्व्वेण च विशेषतः ॥”) अहङ्कारस्तथाध्यात्मं सर्व्वसंसारकारणम् । अभिमानोऽधिभूतञ्च रुद्रस्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ (अयं हि व्यभिचारिभावविशेषः । तल्लक्षणं यथा, साहित्यदर्पणे । ३ । १५० । “गर्व्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥”)
📄 मूल मुद्रित पृष्ठ (2-311-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।