चर्म्मं, क्ली, (चर्म्म साधनतयास्त्यस्य अच् ।) फलकः । इत्यमरटीकायां भरतः ॥ (यथा, मनुः । ७ । १९२ । “स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥”)
चर्म्म, [न्] क्ली, (चर + “सर्व्वधातुभ्यो मनिन् ।” उणां । ४ । ४१५ । इति मनिन् ।) इन्द्रियविशेषः । चाम इति भाषा ॥ तत्पर्य्यायः । त्वक् २ असृग्धरा ३ कृत्तिः ४ अजिनम् ५ देहचर्म्म ६ रक्ताधारः ७ रोमभूमिः ८ शरीरावरणम् ९ । इति राजनिर्घण्टः ॥ असृग्वरा १० । इति भरतधृतसर्व्वधरः ॥ (यथा, भागवते । ३ । ६ । १६ । “निर्भिन्नान्यस्य चर्म्माणि लोकपालोऽनिलो- ऽविशत् ॥”) शरीरावरकं शस्त्रम् । ढाल इति भाषा ॥ तत्- पर्य्यायः । फलकः २ फलम् ३ । इत्यमरः । २ । ८ । ९० ॥ फरम् ४ चर्म्मम् ५ । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, युक्तिकल्पतरौ । “शरीरावरकं शस्त्रं चर्म्म इत्यभिधीयते । तत् पुनर्द्विविधं काष्ठचर्म्मसम्भवभेदतः ॥ शरीरावरकत्त्वञ्च लघुता दृढता तथा । दुर्भेद्यतेति कथिता चर्म्मणां गुणसंग्रहः ॥ स्वल्पता गुरुता चैव मृदुता सुखभेद्यता । विरुद्धवर्णता चेति चर्म्मणां दोषसंग्रहः ॥ [] सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः । ब्रह्मादिजातिभेदेन चर्म्मणां वर्णनिर्णयः ॥ चित्रवर्णस्तु सर्व्वेषां सर्व्वदैवोपपद्यते ॥” * ॥ ब्रह्मचारिधार्य्यकृष्णसारचर्म्म । इत्यमरः । २ । ७ । ४७ ॥ (यथा, मनुः । २ । ४१ । “कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः ॥”)
📄 मूल मुद्रित पृष्ठ (2-436-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।