पत्री, [न्] पुं, (पत्रं पक्षो विद्यतेऽस्य । पत्र + इनिः ।) वाणः । (यथा, रघुः । ११ । ८४ । “शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्ज्जितम् ॥”) पक्षी । इत्यमरः । ३ । ३ । १०५ ॥ (यथा, रघुः ११ । २९ । “तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः ॥”) [] श्येनः । (यथा, नैषधे । १९ । १२ । “नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणा- मिह विहरणैः श्यैनम्पातां रवेरवधारयन् ॥” “पत्रिणां श्येनाख्यपक्षिरूपाणाम् ।” इति तट्टी- कायां नारायणः ॥ पत्राणि च्छदानि सन्त्यस्य । अत इनिः ।) वृक्षः । रथी । पर्व्वतः । इति मेदिनी ॥ तालः । श्वेतकिणिही । गङ्गापत्री । पाची । इति राजनिर्घण्टः ॥ पत्रविशिष्टे, त्रि ॥
पत्री, स्त्री, (पत्र + स्त्रियां ङीप् ।) लिपिः । पत्रम् । यथा, जातके । “श्रीमत्पङ्कजिनीपतिः कुमुदिनीप्राणेश्वरो भूभवः शाशाङ्किः सुरराजवन्दितपदो दैत्येन्द्रमन्त्री शनिः । स्वर्भानुः शिखिनां गणो गणपतिर्ब्रह्मेशलक्ष्मीधरा- स्त्वां रक्षन्तु सदैव यस्य विमला पत्री मया लिख्यते ॥”
📄 मूल मुद्रित पृष्ठ (3-029-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।