पल, क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, पालयति । ह्रस्ववतै- वेष्टसिद्धे दीर्घिणोऽपि पाठः कानुबन्धाना- मिदनुबन्धवत् ञेरनित्यतां बोधयति । तेन पालति पलति इत्यपि सिद्धम् । इति दुर्गादासः ॥
पल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ज, पालः पलः । इति दुर्गादासः ॥
पलं, क्ली, (पलतीति । पल + अच् ।) आमिषम् । कर्षचतुष्टयम् । इत्यमरः । ३ । ३ । २०१ ॥ २ । ९ । ८६ ॥ तत्तु शास्त्रे तोलकचतुष्टयम् । वैद्यके अष्ट- तोलकम् । लौकिके साष्टरक्तिद्विमाषकतोलक- त्रितयम् । तत्पर्य्यायः । मुष्टिः २ प्रकुञ्चः ३ चतुर्थिका ४ विल्वम् ५ षोडशिकाम्रम् ६ । इति वैद्यकपरिभाषा ॥ यथा, तिथ्यादितत्त्वे । “पलन्तु लौकिकैर्मानैः साष्टरक्तिद्बिमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥” विघटिका । इति राजनिर्घण्टः ॥ सा तु घटिकाषष्टिभागैकभागः । षष्टिविपलश्च । पल- दण्डयोः प्रमाणन्तु । “दशगुर्व्वक्षरोच्चारकालः प्राणः षडात्मकैः । तैः पलं स्यात्तु तत्षष्ट्या दण्ड इत्यभिधीयते ॥” तेन च । “मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या- त्तस्माद्धान्ते हर्म्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥” अस्यैकपाठात् पलं षष्ठिपाठाद्दण्डः । इति ज्योतिस्तत्त्वम् ॥
पलः, पुं, (पलतीति । पल् + अच् ।) पलालः । इति हेमचन्द्रः । ४ । २४८ ॥ (यथा, महा- भारते । ३ । २३३ । ११ । “चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥”)
📄 मूल मुद्रित पृष्ठ (3-078-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।