अन्तर न० अन्तं राति ददाति रा--क । अवकाशे, अवधौ, परिधानांशुके अन्तर्द्धाने, भेदे, परस्परवैलक्ष्यण्यरूपे विशेषे, तादर्थ्ये, छिद्रे, आत्मीये, विनार्थे, वहिरर्थे, व्यवधाने, मध्ये, सदृशे च । आसन्ने त्रि० । “कृष्वायुज- श्चिदन्तरम् ऋ० १, १०, ९, अन्तरं कृष्व आसन्नं कुरु” भा० “पायुरन्तरो निषङ्गाय” ऋ० १, ३१, १३, “अन्तरः समीप- वर्त्तीति” भा० “न यत्परो नान्तर इति” ऋ० २, ४१, ८, “अन्तरः समीपवर्त्तीति” भा० निकटस्थे “यज्ञोहीलो वो अन्तर इति” ८, १८, १९, अन्तरः अन्तिके वर्त्तमान इति भा० । अन्तरयति दूरीकरोति अन्तर--णिच् + अच् । अप- सारणे । अन्तर्गते त्रि० । “ह्रदो अस्त्वन्तरम्” ऋ० ७, १०१, ५ “अन्तुरमन्तर्गतमिति” भा० । वृ० उप० अन्तर्यामिब्राह्मणे अन्तर्गते बहुशः प्रयुक्तः तच्च (१३०) पृष्ठे दृश्यम् । “यो अन्तुरोमित्रमहो वनुष्यात् ऋ० ६, ५, ४, अन्तरः [] अभ्यन्तुरवर्त्तीति भा० । “पुरोहितोऽन्तरोयासिदूत्यम् ऋ० १, ४४, १२, “अन्तरः देवयजनमध्ये वर्त्तमान” इति भा० । अवकाशे, “मृणालसूत्रान्तुरमप्य- लभ्यम्” कुमा० । “तत्रान्तरे जघ्नुरमुं कटाक्षैः” माघः । मध्ये, “दिलीपसूनोः स वृहद्भुजान्तरमिति” रघुः । “आवयोरन्तरे जाताः पर्वताः सरितो द्रुमा” इति रामा० । व्यवधाने गिरिर्वा व्यवधायकः । “महानद्यन्तरं यत्र तद्देशान्तरमुच्यते वृ० मनुः । “निरन्तराभ्यन्तरवात- वृष्टिषु” कुमा० निरन्तरमव्यवधानम् इत्यर्थः । “एका- न्तुरे आनुलोम्यादिति” मनुः । भेदे “सैव विशि- नष्टि पुनःप्रधानपुरुषान्तरं सूक्ष्ममिति” सा० का० । “शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति” हितो० । “यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययो- रिति” रामा० । व्यसने । “प्रहरेदन्तरे रिपुम्” । वहिर्योगे “अन्तरे च पुरात् चाण्डालावासा” इति । उप- संव्याने (उत्तरीयवस्त्रे,) अन्तरं परिदधाति । सदृशे, “स्थाने- ऽन्तरतम” इति पा० अन्तरशब्दस्य पुरीभिन्ने एव विशेष्ये सर्वनामकार्य्यम् “सुमेधसामन्तरस्मै” इति सि० कौ०, मु० बो० । पुर्य्यान्तु न, अन्तरायै नगर्य्यै । तत्रापि वहिर्योगे उपसंव्याने एव सर्वनामता । मयूरव्यंसादित्वात् नञादेशान्तरशब्दस्य स्वजातीयभिन्ने वृत्तिः शब्दस्वाभावात् “राजान्तरं राजसुतां निनायेति” रघुः । अन्यो राजा मयू० “राजान्तरमिति” मल्लिना० “देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वय- मिति” स्मृतिः “स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिरिति “अर्थोऽय- मर्थान्तरभाव्य एव” इति च कुमा० । अन्तरस्य भावः ब्राह्मा० ष्यञ् । आन्तर्य्यंसादृश्ये न० “यत्रानेकविध- मान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय” इति परि० सि० कौ० । अन्तरे भवः अण् आन्तरः तद्भवे त्रि० । “कश्चन आन्तरो भाव इति” सा० द० । “अन्तःकरणमान्तर- मिति” वेदा० व्यवकलने (वियोजने) “कुर्य्याद् यथा स्थाननकमन्तरं वेति” लीला० ।
📄 मूल मुद्रित पृष्ठ (0198-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।