अध्वग पु० अध्वन् + गम--ड । पथिके अध्वगमनप्रकारश्च विष्णुसंहितायामुक्तः । यथा “नैकोऽध्वानं प्रपद्येत नाधार्मिकैः सार्द्धम्, न वृषलैः, न द्विषद्भिः, नाति- प्रत्यूषम्, नातिसायम्, न सन्ध्ययोः, न मध्याह्ने, न सन्निहितपानीयम्, नातितूर्णम्, न रात्रौ, न सन्तत व्याधितार्त्तैर्वाहनैः, न हीनाङ्गैः, न रोगिभिः, न दीनैः, न गोभिः, नादान्तैः, यवसोदकैर्वाहनाना- मदत्त्वात्मनः क्षुत्तृष्णापनोदने न कुर्य्यात् । न चतुष्पथ- मधितिष्ठेत्, न रात्रौ वृक्षमूलम्, न शून्यालयं, न तृणम्, न पशूनां बन्धनागारम्, न केशतुषकपालास्थि- भस्माङ्गारान्, न कार्पासास्थि । चतुष्पथं प्रदक्षिणी- कुर्य्यात् देवताञ्च । प्रज्ञातांश्च वनस्पतीन्, अग्निब्राह्मण- गणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्री वृक्षवर्द्धमाननन्द्या- वर्त्तांश्च, तालदन्तचामराग्निगजाजगोदधिक्षीरमधुसिद्धार्थ- कांश्च, वीणाचन्दनायुधार्द्र गोमयपुष्पशाकगोरोचनादूर्वाप्ररो- हांश्च, उष्णीषालङ्कारमणिकनकरजतवस्त्रासनयानामिषांश्च, भृङ्गारोद्धृतोर्वरारज्जुबद्धपशुकुमारीमीनांश्च दृष्ट्वा प्राया- दिति । मत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्त्तेत वान्तविविक्तमुण्ड- मलिनवसनजटिलवामनांश्च, कषायिप्रव्रजितमलिनांश्च, तैलगुडशुष्कगोमयेन्धनतृणकुशपलाशभस्माङ्गारांश्च, लव- णक्लीवासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च, वीणाच- न्दनार्द्रकाशोष्णीषालङ्करणकुमारीः प्रस्थानकालेऽभिवन्दये- दिति । देवब्राह्मणगुरुदीक्षितानां छायां नाक्रामेत्, [] निष्ठ्यूतवान्तरुधिरविण्मुत्रस्नानोदकानि वा । न वत्सतन्त्रीं र्लङ्घयेत् । प्रवर्षति न धावन्, न वृथा नदीं तरेत् । न देवताभ्यः पितृभ्यश्च कामं प्रदाय, न बाहुभ्याम्, न भिन्नया नावा । न कच्छमधितिष्ठेत् । न कूपमवलो- कयेत्, न लङ्घयेत् । वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रि- णाम् पन्थादेयो नृपस्तेषां मान्यः स्नातश्च भूपतेरिति” । “सन्तानकतरुच्छायसुप्तविद्याधराध्वगमिति” कुमा० । सूर्य्ये, उष्ट्रे, च । पथिगामुकमात्रे त्रि० । गङ्गायां स्त्री अश्वतरे पु० ।
📄 मूल मुद्रित पृष्ठ (0142-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।