🕉️ 19 November 2026, Thursday · 01:22:32 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आहार
āhāra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
भोजन के और नाम (2.9.57) जेमन · लेह · निघस · न्याद
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आहार संज्ञा पुं॰ [सं॰]
१. भोजन । खाना । क्रि॰ प्र॰— करना ।—होना । यो॰— निराहार । फलाहार ।
२. खाने की वस्तु: जैसे,—बहुत दिनों से उसे ठीक आहार नहीं मिला है ।
३. ले लेना । ग्रहण । स्वीकार (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आ-हार &c. See आ-√ हृ.
आ-हार mf(ई)n. ifc. bringing near, procuring
being about to fetch, going to fetch, MBh.
आ-हार m. taking
fetching, bringing near, KātyŚr.; R.
employing, use, KātyŚr.
taking food
food [e.g. आ-हारं √ 1. कृ, to take food, eat, MBh. &c.]
livelihood, Hit.; Pañcat.; R.; Mn.; Suśr. &c.
📄 मूल मुद्रित पृष्ठ (162,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आहार a. (रा or री f.) 1 Bringing near, procuring, getting; भाराहारः कार्यवशात् Sk. --2 Going to fetch; अयं गच्छति भर्ता मे फलाहारो महावनं Sāv. 4 23. --रः 1 Taking, fetching, or bringing near. --2 Employing, using. --3 Taking food. --4 Food; (आहरंति रसमस्मादित्याहारः Sk.); ˚वृत्तिमकरोत् Pt. 1 took his dinner; फलाहार, ˚वृत्तिः means of livelihood; भैक्षाहारः living on alms; यवाहार, निराहार &c. --Comp. --अर्थिन् a. begging or seeking for food. --निःसरणमार्गः the posterior part, passage of voiding excrements. --पाकः {1} cooking. {2} digestion (of food). --विरहः want of food, privation, starvation. --संभवः the juice of the body, chyle, lymph.
📄 मूल मुद्रित पृष्ठ (0272-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आहार पु० आ + हृ--घञ् । १ आहरणे । उपसर्गयोगात् २ भोजने “निराहारौ यताहारौ तन्मनस्कौ समाहितौ” देवीमा० आहारविधिश्च सुश्रुते उक्तः यथा “अथाहा- रविधिं वत्स! विस्तरेणाखिलं शृणु । आप्तान्वित- मसंकीर्ण्णं शुचि कार्य्यं महानसम् । तत्राप्तैर्गुणसम्पन्न- मन्नं भक्ष्यं सुसंस्कृतम् । शुचौ देशे सुसंगुप्तं समुपस्थापये- द्भिषक् ॥ विषध्नैरगदैः स्पृष्टं प्रीक्षितं व्यजनोदकैः । सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् । वक्ष्याम्यतःपरं कृत्स्नमाहारस्योपकल्पनम् । घृतं कार्ष्ण्यायसे देयं पेया देया तु राजते । फलानि सर्वभक्ष्यांश्च प्रदद्याद्वैदलेषु च । परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् । प्रद्रवाणि [] रसांश्चैव राजतेषूपहारयेत् । कट्वराणि खडांश्चैव सर्व्वान् शैलेषु दापयेत् । दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः । पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् । काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । दद्याद्वैदूर्य्य पात्रेषु रावखाण्डकशर्कराः । पुरस्ताद्विमले पात्रे सुविस्तीर्ण्णे मनोरमे । सूदः सूपौदनं दद्यात् प्रलेहांश्च सुसंस्कृतान् । फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् । प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः । खडान् यूषांञ्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् । सर्व्वान् गुडविकारांश्च रावखाण्डकशर्कराः । पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः । एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ । सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत् । विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसा- दिभिः । मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् । पूर्व्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ । पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् । आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् । ततः पेयांस्ततो भोज्यान् भक्ष्यां श्चित्रांस्ततः परम् । धनम्पूर्व्वं समश्नीयात् केचिदाहु- र्व्विपर्य्ययम् । आदावन्तेच मध्ये च भोजनस्य तु शस्यते । निरत्ययं दोषहरं फलेष्वामलकं नृणाम् । मृणालविस- शालूककन्देक्षुप्रभृतीनि च । पूर्व्वं योज्यानि भिषजा नतु भुक्ते कथञ्चन । सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः । काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् । बुभुक्षितो- ऽन्नमश्नीयान्मात्रावद्विदितागमः । काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते । लघु शीघ्रं व्रजेत्पाकं स्निग्धोढ्यं बलवह्निदम् । क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् । सुखं जीर्य्यति मात्रावद्धातुसाम्यं करोति च । अतीवा यतयामास्तु क्षपा येष्वृतुषु स्मृताः । तेषु तत्प्रत्यनीकाद्यं भुञ्जीत प्रातरेव तु । येषु चापि मवेयुश्च दिवसा भृश- मायताः । तेषु तत्कालविहितमपराह्णे प्रशस्यते । रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः । कृत्वा सममहो- रात्रं तेषु भुञ्जीत भोजनम् । नाप्राप्तातीतकालं वा हीनाधिकमथापि वा । अप्राप्तकाले भुञ्जानः शरीरे ह्यल- घौ नरः । तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति । अतीतकाले भुञ्जानो वायुनोपहतेऽनले । कृच्छ्राद्विपच्यते भुक्तं द्वितीयञ्च न काङ्क्षति । हीनमात्रमसन्तीषं करोति च बलक्षयम् । आलस्यगौरवाटोपसादांश्च कुरुतेऽ- [] धिकम् । तस्मात्सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् । यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् । विभज्य कालदोषा- दीन् कालयोरुभयोरपि । अचोक्षं (अपरित्रम्) दुष्ट- मुच्छिष्टं पाषाणतृणलोष्टवत् । द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् । चिरसिद्धं स्थिरं शीतमन्न- मुष्णीकृतं पुनः । अशान्तमुपदग्धञ्च तथा स्वादु न लक्ष्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
आहारः, पुं, (आङ् + हृ + घञ् ।) द्रव्यगलाधः- करणं । तत्पर्य्यायः । जग्धिः २ भोजनं ३ जेमनं ४ लेपः ५ निघषः ६ न्यादः ७ । इत्यमरः ॥ जमनं ८ विघषः ९ इति तट्टीका ॥ प्रत्यवसानं १० भक्षणं ११ अशनं १२ ॥ इति रत्नमाला ॥ अभ्यवहारः १३ स्वदनं १४ निगरः १५ । इति राजनिर्घण्टः ॥ अस्य गुणाः । सद्यस्तृप्तिजनकत्वं । बलकारित्वं । देहधारकत्वञ्च । इति राजवल्लभः ॥ (“तमुवाच भगवानात्रेयः । हिताहारोपयोग एक- एव पुरुषस्याभिवृद्धिकरो भवति । अहिताहारो- पयोगः पुनर्व्वाधिनिमित्तमिति” । “तमुवाच भगवानात्रेयः । यदाहारजातमग्नि- [] वेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति, विषमांश्च समीकरोतीत्येतद्धितं विद्धि त्वहितं विपरीतं इत्येतद्धिताहितलक्षणमनपवादम्भवति एवं वादिनञ्च भगवन्तमात्रेयमग्निवेश उवाच । भगवन्नन्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्ति । तमुवाच भगवानात्रेयः । येषां विदितमाहारतत्त्वमग्निवेश ! गुणतो द्रव्यतः कर्म्मतः सर्व्वावयवतो मात्रादयो भावास्तत्र तदेव- मुपदिष्टं विज्ञातुमुत्सहेरन् यथा तु खल्वेतदुप- दिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्ति तथैतदुपदेक्ष्यामः । मात्रादीन् भावानुदाहरन्त- स्तेषां हि बहुविधविकल्पा भवन्ति । आहारविधि- विशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्या- स्यामः । तद्यथा, आहारत्वमाहारस्यैकविधमर्था- भेदात् । स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् । द्विविधः प्रभावो हिताहितोदर्कविशेषात् । चतु- र्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् । षडा- स्वादो रसभेदतः षड्विधत्वात्” । इति चरकः ॥ “यदाहारगुणैः पानं विपरीतं तदिष्यते । अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च” ॥ इति च चरकः ॥ “प्राणिनां पुनर्मूलमाहारो बलवर्णौजसाञ्च षट्सु रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः” ॥ “स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखकरश्च भवति” । “आहारः प्रीणनः सद्यो बलकृद्देहधारकः । आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः” ॥ इति सुश्रुतः ॥) स त्रिविधः । सात्विकः १ राज- सिकः २ तामसिकः ३ । सात्विकाहारो यथा, -- ८ श्लोकः । “आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक- प्रिया” । राजसिकारो यथा, ९ श्लोकः । “कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः” ॥ तामसिकाहारो यथा, १० श्लोकः । “यातयामं गतरसं पूतिपर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं मोजनं तामसप्रियम्” ॥ इति श्रीभगवद्गीता १७ अध्यायः ॥ आहरणं । इति मेदिनी ॥ (“स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया” । इति महाभारतम् । आदिपर्ब्बणि ७६ । सम्भव- पर्ब्बणि ७६ । ३५ ।)
📄 मूल मुद्रित पृष्ठ (1-199-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "आहार" आता है (33)
अशन भोजन । आहार । अन्नजग्ध भोजन । आहार । खानानिघस भोजन । खाद्य । आहारविघस आहार । भोजन । खानाजीवनक आहार । खाद्यन्याद आहारजीवातु खाद्य । आहारभुक्ति भोजन । आहारआश आहार । भोजन (समास में प्रयुक्त)वर्त जीविका । आहार । समाभ्रांत में प्रयुक्त, जैसे, कल्यवर्तप्राश् भोजन । आहारसंघस भोजन की वस्तु । आहारप्राणोपहार भोजन । आहार । खानाभखु पु संज्ञा पुं॰ भक्ष्य । आहार । दे॰ 'भक्ष'भोजू पु संज्ञा पुं॰ भोजन । आहारवल्मन आहार । भोजनविष्कलन भोजन । आहारदानाचारा खानापीना । भोजन । आहार । क्रि॰ प्र॰—करनाधाक वृषलेह दे॰ 'अवलेह'अद्य अब । अभी । आजआचार व्यवहार । चलन । रहन सहनजेमन भोजन करना । जीमनाभक्षण भोजन करना । किसी वस्तु को दाँतों से काटकर खाना । जैसे, पुआ आदि का खानाभक्ष्य भक्षण करने योग्य । खाने के योग्यप्रेति मरण । मरनाकासा खाँसीऊर्जा शक्ति । बलभोजनीय भोजन करने योग्य । खाने योग्य । जो खाया जा सकेउपभोज्य खाने योग्यभुक पु संज्ञा पुं॰शिकार जंगली पशुओं को मारने का कार्य या क्रीड़ा । आखेट । मृगया । अहेर । जैसे,…जियारा † संज्ञा पुं॰
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें