🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पिता, [ऋ] पुं, पाति रक्षत्यपत्यं यः । (पा रक्षणे + “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृ- मातृपितृदुहितृ ।” उणां । २ । ९६ । इति तृच्- प्रत्ययेन निपातनात् साधुः ।) उत्पादकः । वाप् इति भाषा । तत्पर्य्यायः । तातः २ जनकः ३ । इत्यमरः । २ । ६२८ ॥ प्रसविता ४ वप्ता ५ जन- यिता ६ गुरुः ७ जन्मदः ८ जन्यः ९ जनिता १० । इति शब्दरत्नावली ॥ बीजी ११ वप्रः १२ । इति हेमचन्द्रः ॥ * ॥ तस्य मान्यत्वं लक्षणञ्च यथा, -- “मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् । [] अहो यस्य प्रसादेन सर्व्वान् पश्यति मानवः ॥ जनको जन्मदाता च रक्षणाच्च पिता नृणाम् । तातो विस्तीर्णकरणात् कलया सा प्रजापतिः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ स च गुरुः । यथा, -- “उपाध्यायः पिता ज्येष्ठोभ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ बन्धुर्ज्येष्ठपितृ व्यश्च पुंस्वेते गुरवः स्मृताः ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥ (ज्येष्ठपितृव्यार्थे पितृशब्दप्रयोगो यथा, महा- भारते । ६ । ५३ । ३ । “गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ॥”) स हि महागुरुः । यथा, “महागुरूनाह विष्णुः । त्रयः पुरुषस्यातिगुरवो भवन्ति माता पिताचार्य्यश्चेति ॥” इति शुद्धितत्त्वम् ॥ कामासक्तस्य पितुर्व्वचनमग्राह्यं यथा, -- “पितुर्व्वचो हि मा कार्षीः कामव्यासक्तचेतसः । आत्मानञ्चाभिषिञ्चस्व तदर्थं क्षत्त्रियो ह्यसि ॥” इत्याग्नेये श्रीरामं प्रति कौशल्यावाक्यम् ॥ तस्य पुत्त्रकृतधर्म्माधर्म्मभागित्वं यथा, -- “यः पिता स तु पुत्त्रोऽयमिति वै वैदिकी श्रुतिः । निगद्यते पुराणे तु तां शृणुष्व यथातथम् ॥ न्यग्रोधस्य सुशाखायाः शटास्तास्तु गता भुवि । प्ररोहानुपपद्यन्ते मूलभ्रंशात्तथा सुताः ॥ तद्बिधानुपपद्यन्ते तथान्ये ते च तादृशाः । तेभ्यश्चान्ये प्ररोहन्ति व्रीहिभ्योऽपि यथा तथा ॥ एवं पुत्त्रैः कृतो धर्म्मस्तथाधर्म्मश्च भूपते । पिता संलिप्यते तेन मा च त्वं संशयं कृथाः ॥ न धर्म्मिणां नराणान्तु बीजनाशो भवेदिह । सर्व्वथा शंसते लोके बीजात् पुनः समुच्छ्रयः ॥” इत्याग्नेये पापनाशनवृषदानाध्यायः ॥ * ॥ तस्मिन् जीवति बाह्वोस्तिलकनिषेधो यथा, -- “न बाह्वोस्तिलकं कुर्य्यात् यस्य जीवन् पिता स्थितः । तथा ज्येष्ठः सोदरश्च यस्य जीवति स तथा ॥” इति बृहद्धर्म्मपुराणम् ॥ * ॥ उत्पादकपित्रपेक्षया मन्त्रदातृपितुर्गुरुतरत्वं यथा, तन्त्रसारे । “उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् ॥” पञ्च पितरो यथा, चाणक्ये । “अन्नदाता भयत्राता यस्य कन्या विवाहिता । जनयिता चोपनेता च पञ्चैते पितरः स्मृताः ॥” सप्त पितरो यथा, -- “कन्यादातान्नदाता च ज्ञानदाताभयप्रदः । जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥ एकत्रिंशत्पितृगणा यथा, -- “विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभासनः । भूमिदो भूमिकृद्भूतिः पितॄणां ये गणा नव ॥ कल्याणः कल्यदः कल्यतरः कल्यतराश्रयः । कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ॥ [] वरो वरेण्यो वरदो भूतिदः पुष्टिदस्तथा । विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ महान् महात्मा महितो महिमावान्महाबलः । गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ सुखदो धनदश्चान्यो धर्म्मदोऽन्यश्च भूतिदः । पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ॥ एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् । ते मेऽत्र तृप्तास्तुष्यन्तु दिशन्तु च सदा हितम् ॥” इति गारुडे पितृस्तोत्रं ८९ अध्यायः ॥ (पितॄणां स्तुतिपूर्व्वकं नामसंख्यादिकथनम् यथा मार्कण्डेये । ९६ । १३ -- ४८ । रुचिरुवाच । “नमस्येऽहं पितॄन् श्राद्धे ये वसन्त्यधिदेवताः । देवैरपि हि तर्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।