🕉️ 19 November 2026, Thursday · 12:15:02 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

भक्त
bhakta
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
भक्त वि॰ [सं॰]
१. वाटा हुआ । भागों में बाँटा हुआ ।
२. बाँटकर दिया हुआ । प्रदत्त ।
३. अलग किया हुआ ।
४. पक्षपाती ।
५. अनुयायी ।
६. सेवा करनेवाला । भजन करनेवाला । भक्ति करनेवाला ।
भक्त संज्ञा पुं॰
१. पका हुआ चावल । भात ।
२. धन ।
३. अन्न ।
४. भाग । हिस्सा ।
५. वेतन ।
६. सेवा पूजा करनेवाला पुरुष । उपासक । विशेष—भगवदगीता के अनुसार आर्त, जिज्ञासु, अर्थार्थी और ज्ञानी चार प्रकार के भक्त तथा भागवत के अनुसार नवधा भक्ति के भेद से नौ प्रकार के भक्त माने गए हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भक्त भक्ति &c. See p. 743.
भक्त mfn. distributed, assigned, allotted, RV. &c. &c.
divided, Sūryas.
(ifc.) forming part of, belonging to, Pāṇ., Sch.
(ifc.) loved, liked, Pāṇ. iv, 2, 54
served, worshipped, W.
dressed, cooked, ib.
engaged in, occupied with, attached or devoted to, loyal, faithful, honouring, worshipping, serving (loc. gen. acc. or comp.), MBh.; Kāv. &c.
भक्त m. a worshipper, votary (esp. as N. of a division of the Śāktas), IW. 523 n. 1
भक्त n. food or a meal, Mn.; MBh. &c.
boiled rice, Uttarar.
any eatable grain boiled with water
a vessel, L.
a share, portion, MW.
📄 मूल मुद्रित पृष्ठ (742,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भक्त p. p. [भज्-क्त] 1 Distributed, allotted, assigned. --2 Divided. --3 Served, worshipped. --4 Engaged in, attentive to. --5 Attached or devoted to, loyal, faithful; Bg. 9. 34. --6 Dressed, cooked (as food). --7 Forming a part of, belonging to. --8 Loved, liked (at the end of comp.). --क्तः A worshipper, adorer, devotee, votary, faithful attendant; भक्तोसि मे सखा चेति Bg. 4. 3; 9. 31; 7. 23. --क्तं 1 A share, portion. --2 Food; Bh. 3. 74. --3 Boiled rice; U. 4. 1. --4 Any eatable grain boiled with water --5 Adoration, worship. --Comp. --अभिलाषः desire of food, appetite. --उपसाधकः a cook. --कंसः a dish of food. --करः incense prepared from various fragrant resins and perfumes. --कारः a cook. --छंदं appetite. --जा nectar. --तूर्यं a musical instrument played during meals. --द, --दातृ, --दायक a. supporter, maintainer. --दासः a slave who agrees to serve another for maintenance, or who receives his meals as a return for his services; Ms. 8. 415. --द्बेषः dislike of food, loss of appetite. --पुलाकः a mouthful of rice kneaded into a lump or ball. --मंडः the scum of boiled rice. [] --रुचिः f. appetite. --रोचन a. stimulating appetite. --वत्सल a. kind to worshippers or devotees. --(लः) N. of Viṣṇu. --शाला {1} an audience chamber (to admit petitioners and hear them). {2} a dining-hall. --सिक्थं = भक्तमंड q. v.
📄 मूल मुद्रित पृष्ठ (0805-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
भक्त पुंन० भज--क्त । १ अन्ने ओदने अमरः । २ भक्तियुक्ते ३ तदात्मके ततपरे ४ विभक्ते कृतभागे च त्रि० “भक्तो हरः शुध्यति यद्गुणः स्यात्” लीला । अन्नपाकप्रकारस्त- द्गुणश्च मावप्र० उक्तो यथा “सुधोतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेद् । [] तद्भक्तं प्रशृतञ्चोष्णं विशदं गुणवन्मतम् । भक्तं वह्नि- करं पथ्यं तर्पणं रोचनं लथु । अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम्” । भक्तियुक्तलक्षणादिकं तद्भेदश्च मुक्ताफले उक्तं यथा “सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यै- रिह” “ते भक्ताः इति लक्षणं स च नबधाहासादिनववि- धरसास्वादमूलकत्वेन नवविधत्वात्” । रसभेदे भक्तविशेषाः मुक्ताफले दर्शिताः यथा “तस्य तत् खेलनं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः । व्रोडिताः प्रेक्ष्य चान्योऽन्यं जातहासा न निर्ययुः” भाग० १० । १२ अ० तथाच हासे गोप्य सम्भोगशृ- ङ्गारे गोप्यादयस्तत्र दर्शिताः । विप्रलम्भशृङ्गारेऽपि गोप्य स्तत्र दर्शिताः । “अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनि- र्गमाः । इत्यादितद्भावनायुक्ता दध्युर्मीलितलोचनाः । दुः- सहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेष- निर्वृत्त्या क्षीणमङ्गलाः । तमेव यरमात्मान जार- बुद्ध्याऽपि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीण- बन्धनाः । अन्यानि रासपञ्चाध्यायीवाक्यानि तत्रोदा- हृतानि दृश्यानि । करुणरमेऽर्जुनादयः । बाक्यानि तत्र दृश्यानि । रौद्ररसे हिरण्यकशिपुशिशुपालादयः । भायानकरसे कंसादयः । वीभत्सरसे पुरूरवाः पिङ्गला- दयश्च । शान्तरसे नारदादयः । अद्भुतरसे श्रीदाम- ब्रह्मादयः । वीररसे बलिप्रभृतयः । तत्र दानवीरे बलिः धर्मवीरसे कविप्रभृतयः । युद्धवीरे शिशुपालादयः । ए- तेषां मूलवाक्यानि तत्र दृश्यानि । अधिकं भक्तिशब्दे दृश्यम् “भक्तानां लक्षणं लक्ष्मि! गूढं श्रुतिपुराणयोः । पुण्य- स्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् । सारमूतं गोप- नीयं न वक्तव्यं खलेषु च । गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशत्यलम् । वेदवेदाङ्गवेदान्तास्तं पवित्रं वदन्ति हि । पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थ वा मुक्तिमाप्नोति तत्क्षणात् । यैः कैश्चिद् यत्र वा जन्म लब्धं येषु च जन्तुषु च । जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् । मद्भक्तियुक्तो मत्पूजा- नियुक्तो मद्गुणाश्रितः । मद्गुणश्लाघनीयश्च सन्निविष्टश्च सन्ततम् । सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च । न वाञ्छति सुखं मुक्ति सालोक्यादिचतुष्टयम् । ब्रह्म- त्वममरत्वं वा तद्वाञ्छा मम सेवने । इन्द्रत्वञ्च मनुत्वञ्च देवत्वञ्च सुदुर्लभम् । स्वर्गराज्यादिभोगांञ्च स्वप्ने च न हि वाञ्छ्रात । ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा । [] कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति । भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् । तेऽपि यान्ति महीं पूत्वा परं तीर्थं ममालयम्” ब्रह्मवै० प्र० ५ अ० । “रति कृष्ण- कथायाञ्च यस्याश्रु पुलकोद्गमः । मनो निमग्नं यस्यैव स मक्तः कथितो बुधैः । पुत्रदारादिकं सर्वं जानाति श्री- हरेरपि । आत्मना मनसा वाचा स भक्तः कथितो बुधैः । दयास्ति सर्वभूतेषु सर्वं कृष्णमयं जगत् । यो जानाति महाज्ञानी स भक्तो वैष्णवीत्तमः” ब्रह्मवै० जन्म० १ अ० । त्रिविधभक्तलक्षणं यथा “भक्तानां त्रिविधा- नाञ्च लक्षणं श्रूयतामिति । तृणशय्यारतो भक्तो मन्नाम गुणकीर्त्तिषु । मनोनिवेशयेत् त्यक्त्वा संसारसुखकारणम् । दास्यं विना नहीच्छेत्तु सालोक्यादिचतुष्टयम् । नैव निर्वाणमुक्तिञ्च सुधापानमभोप्सितम् । ध्यायते मत्पदा- ब्जञ्च पूजयेद्भक्तिभावतः । श्रीहेतुकास्तस्य देवा सङ्कल्पर- हितस्य च । स
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
भक्तं, क्ली, (भज्यते स्मेति भजसेवायां + कर्म्मणि क्तः ।) अन्नम् । इत्यमरः । २ । ९ । ४८ ॥ अथ भक्तस्य नामानि साधनं गुणाश्च । “भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्सा दीदिविः पुंसि भाषितः ॥” सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् । तद्भक्तं प्रसृतञ्चोष्णं विशदं गुणवन्मतम् ॥ भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु । अधौतमसृतं शीतं गुर्व्वरुच्यं कफप्रदम् ॥” इति भावप्रकाशः ॥ हरये निवेदितान्नस्य नित्यं भक्षणे फलं यथा, “ये विप्रा हरये दत्त्वा नित्यमन्नञ्च भुञ्जते । उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥” हरये अदत्त्वा तद्भक्षणे दोषो यथा, -- “न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि । पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ॥ * ॥ शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः । आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥” अन्नदानफलं यथा, -- “अन्नञ्च सर्व्वजीविभ्यः पुण्यार्थं दातुमर्हति । दत्त्वा विशिष्टजीविभ्यो विशिष्टं फलमाप्नुयात् ॥ अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् । ततो विशिष्टशूद्रेभ्यो दत्त्वा तद्द्विगुणं फलम् ॥ दत्त्वान्नं घैश्यजातिभ्यस्ततश्चाष्टगुणं फलम् । दत्त्वान्नं क्षत्त्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत् ॥ क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च । घिप्राणाञ्च शतगुण शास्त्रज्ञे ब्राह्मणे फलम् ॥ शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् । स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम् ॥ विष्णवे भक्तविप्राथ दत्त्वा दातुश्च यत् फलम् । तत् फलं लभते नूनं भक्तब्राह्मणभोजने ॥ भक्त तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः । भवन्ति सिक्ताः शाखाश्च यथा मूलनिषे- चनात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अध्यायः । [] तस्य एकादश्यां पापाश्रयत्वं भक्षणे दोषश्च यथा, -- “एकादश्यामागतायां पावयन्त्यां जगत्त्रयम् । स्थातव्यमन्नमाश्रित्य भवता पापपूरुष ! ॥ अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपूरुषम् । न हनिष्यति मन्मूर्त्तिरियमेकादशी तिथिः ॥ तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः । आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ॥ संसारे यानि पापानि तान्येवैकादशीदिने । अन्नमाश्रित्य तिष्ठन्ति पुण्डरीकेक्षणाज्ञया ॥ कुर्व्वतां सर्व्वपापानि नरकान्निष्कृतिर्भवेत् । न निष्कृतिर्भवेन्नणां भुञ्जतां हरिवासरे ॥ मर्त्या भक्तानि यावन्ति भुञ्जते हरिवासरे । प्रतिभक्ते ब्रह्महत्याकोटिजं पातकं लभेत् ॥ सर्व्वपापाश्रयं भक्तं त्यक्तव्यं हरिवासरे । मोहाद्ये भुञ्जते वापि ते ज्ञेयाः पापिनां वराः ॥” इति पाद्मे क्रियायोगसारे २१ अध्यायः ॥ वर्जनीयान्नं यथा, -- “नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्बा यदि- वान्यतः । स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ षण्मासान् यो द्बिजो भुङ्क्ते शूद्रस्यान्नं विग- र्हितम् । जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥ ब्राह्मणक्षत्त्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ राजान्नं नर्त्तकान्नञ्च तक्षणोऽन्नञ्चक्रकारिणः । गणान्नं गणिकान्नञ्च षण्डान्नञ्चैव वर्जयेत् ॥ चक्रोपजीविरजकतस्करध्वजिनां तथा । गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्जयेत् ॥ कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य च । पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि ॥ सुवर्णकारशैलूषव्याधितस्यातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य च ॥ स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्य
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "भक्त" आता है (13)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें