चिकित्सा, स्त्री, (चिकित्सनमिति । कित् व्याधि- प्रतीकारे + “गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ । इति स्वार्थे सन् ततः अप्रत्ययः ।) रोगप्रती- कारः । तत्पर्य्यायः । रुक्प्रतिक्रिया २ । इत्य- मरः । २ । ६ । ५० ॥ उपचारः ३ उपचर्य्या ४ निग्रहः ५ वेदनानिष्टा ६ क्रिया ७ उपक्रमः ८ शमः ९ । इति राजनिर्घण्टः ॥ चिकित्सितम् १० प्रतीकारः ११ भिषग्जितम् १२ । इति रत्न- माला ॥ रोगप्रतिकारः १३ । इति शब्दरत्ना- वली ॥ सा त्रिधा यथा, वैद्यके । “आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता । सूतप्रधाना दैवी स्यात् छेदभेदात्मिकासुरी ॥ मानुषी षड्रसा ज्ञेया जपहोमादिसंस्कृता । कलौ चाल्पबले लोके मानुषी तत्र पूजिता ॥” तस्या लक्षणं यथा, -- “याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः । सा चिकित्सा विकाराणां कर्म्म तद्भिषजां मतम् ॥ या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च । सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥” चिकित्साविध्युपदेशो यथा, -- “जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः । वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ ॥ रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः कर्म्म भिषक् पश्चाज्ज्ञानपूर्व्वं समाचरेत् ॥ औषधं केवलं कर्त्तुं यो जानाति न चौषधम् । वैद्यकर्म्म स चेत् कुर्य्याद्वधमर्हति राजतः ॥ आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः । भेषजानां विधानेऽथ ततः कुर्य्यात् चिकित्सितम् ॥ शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् । कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हाप- येत् ॥ अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता । क्रियाहीनातिरिक्ता च साध्येष्वपि न सिध्यति ॥ क्रिया यास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् । पूर्व्वस्यां शान्तवेगायां न क्रियासङ्करो मतः ॥” चिकित्साफलं यथा, -- “क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्ग्मः क्वचिद्यशः । [] कर्म्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥” * ॥ चिकित्साङ्गानि यथा, भावप्रकाशे । “रोगी दूतो भिषग्दीर्घमायुर्द्रव्यञ्च सेवकः । सदौषधं चिकित्सायामित्यङ्गानि बुधा जगुः ॥”
📄 मूल मुद्रित पृष्ठ (2-446-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।