सर्व्वतोमुखं, क्ली, (सर्व्वतो मुखमस्येति ।) जलम् । इत्यमरः । १ । १० । ४ ॥ आकाशम् । इति मेदिनी ॥ (समन्ततोमुखविशिष्टे, त्रि । यथा, महाभारते । १ । २११ । १२ । “एवं सर्व्वान् समादिश्य पूर्व्वतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्व्वतोमुखौ ॥”)
सर्व्वतोमुखः, पुं, (सर्व्वतः मुखमस्येति ।) शिवः ॥ (यथा, महाभारते । १३ । १७ । ६६ । “सर्व्वकामवरश्चैव सर्व्वदः सर्व्वतोमुखः ॥”) ब्रह्मा । (यथा, कुमारे । २ । ३ । “अथ सर्व्वस्य धातारं ते सर्व्वे सर्व्वतोमुखम् । वागीशं वाग् भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥”) आत्मा । इति मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । १०० । “अमृताशोऽमृतवपुः सर्व्वज्ञः सर्व्वतोमुखः ॥”) ब्राह्मणः । इति शब्दरत्नावली ॥ स्वर्गः । इति शब्दमाला ॥ अग्निः । यथा, -- “सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः । विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वधृताग्निप्रणयनमन्त्रः ॥
📄 मूल मुद्रित पृष्ठ (5-306-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।