नीरं, क्ली, (नयति प्रापयति स्थानात् स्थानान्तर- मिति । नी प्रापणे + “स्फारितञ्चीति ।” उणां २ । १३ । इति रक् । यद्वा, “अग्नेरापः ।” इति श्रुतेः निर्गतं रादग्नेरिति, “अद्भ्योऽग्नि- र्ब्रह्मणः क्षत्त्रम् ।” इति स्मृतेः निर्गतो रोऽग्नि- र्यस्मादिति वा । “ढ्रलोपे पूर्व्वस्य दीर्घोऽणः ।” ६ । ३ । १११ । इति रलोपे पूर्व्वदीर्घः ।) जलम् । इत्यमरः । १ । १० । ४ ॥ (यथा, गीतगोविन्दे । १ । ९ । “छलयसि विक्रमणे वलिमद्भुतवामन पदनखनीरजनितजनपावन । केशव धृतवामनरूप जय जगदीश हरे ॥”) रसः । इत्युणादिकोषः ॥ नीरे अक्षेपणीयानि यथा, गरुडपुराणे । “निष्ठीवासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥” (अस्य पानविधेयता विधीयते यथा, -- “षाप्युद्भवन्तत् प्रवदन्ति धीरा नीरं समासेन निगद्यतेऽत्र । यत् श्रीमताञ्चैव महायतीनां बलप्रदं पथ्यतरं प्रदिष्टम् ॥” “विण्मूत्रे तृणनीलिका विषयुतं तप्तं घनं फेनिलं दन्तग्राह्यमनार्त्तवं हि सलिलं दुर्गन्धि वै गर्हितम् । नानाजीवविमिश्रितं गुरुतरं वर्णौघपङ्काविल- ञ्चन्द्रार्कांशुसुगोपितं न च पिबेन्नीरं सुदोषा- न्वितम् ॥” इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-911-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।